पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२० गीतगोविन्द [सर्गः ८ भ्रमति भवानबलाकवलाय वनेषु किमत्र विचित्रम् । प्रथयति पूतनिकैव वधूबधनिर्दयबालचरित्रम् || हरिहरि ॥ ७ ॥ श्री जयदेवभणितरतिवञ्चित खण्डितयुवतिविलापम् । शृणुत सुधामधुरं विबुधा विबुधालयतोऽपि दुरापम् ।। हरिहरि ८ श्रितं भवन्तमधिकृत्यासमशरदूनं मल्लक्षणं जनं कथं वश्चयसे । तद्वश्वनादेव चित्तमपि मलिनमनुमीयते । मलिना एवाचितवञ्चनां कुर्वन्तीति ॥६॥ अपि च । भ्रमतीति । हे वधूवधे निर्दय, भवान्वनेषु अबलाकवलाय युवतिप्रसनाय भ्रमति । सर्वाणि वाक्यानि सावधारणान्येवेति । यथा पार्थो धनुर्धर इतिवत् । अत्र मधे किं विचि- । त्रम् | ममाबलाया वधः सुकर एव । पूतनिका अतियुद्धमदा कंसभगिन्येव तव बालच- रित्रं प्रथयति । बालेन यदि तादृशी अबला कवलिता तर्थस्या अबलाया: कवलने किमा- चर्यम् । अत्र स्त्रीवधो निषिद्ध इति निन्दा । 'अथ कथमपि' इत्यादौ खण्डिता नायिका | तल्लक्षणम् – 'ज्ञातान्यासंगविकृतौ कान्ते कोपकषायिता । गत्वान्यत्रागते कान्ते भोग- चिन्हैः कषायिता' ॥ ७ ॥ अपि च । श्रीजयदेवेति । हे विबुधाः, श्रीजयदेवेन भणितमभिलाषषश्चितखण्डितयुवतिविलापं शृणुत । किंभूतम् । सुधामधुरम् । पुनः किंभूतम् । खर्गेऽपि दुरापम् । सप्तम्यर्थे ततिः ॥ खण्डितालक्षणं यथा- 'निद्राकषायमुकुलीकृतताम्रनेत्रो नारीनखत्रणविशेषविचित्रिताङ्गः । यस्याः कुतोऽपि पतिरेति गृहं प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः ॥ तथा च संगी- तराजे – 'तालो वर्णयतिर्मेघरागो देवादिवर्णनम् । विप्रलम्भाख्य शृङ्गारो रसः करुणवे- दनम् । कविनामाङ्कितपदप्रान्ते पाटखरावलिः | द्वित्राण्यथ पदानि स्युरिति लक्ष्मीपतेः पुरः । रत्नावलीप्रबन्धोऽयं निबद्धः कुम्भभूभुजा' || इति लक्ष्मीपतिरत्नावलीनामा सप्तदशः प्रबन्धः ॥ पदरचना जयदेवोदिता कमलाक्लभगानोचिता कुम्भनृपेण परं रिव शब्दोऽपि तादृशः ॥ इति ॥ ६ ॥ चित्तमालिन्यमेवाइ । भ्रमतीति । भवान्य- नेषु विपिनेष्वबलाकवलाय कामिनीग्रसनाय भ्रमति । अत्रार्थे किं चित्रम् | न किमपी. स्वर्थः । तत्र हेतुमाह - प्रथयति ख्यापयति । त्वयापि बाल्ये येन स्तनदानप्रवृत्ता राक्षसीति हता तस्य संप्रति कोमलाङ्गीनां मादृशां मारणे किं वक्तव्यमिति भावः । खण्डिता नायिका । तदुक्तं भरते – 'निद्राकषायकलुषीकृतताम्रनेत्रो नारीनखत्रणवि- शेषविचित्रिताङ्गः । यस्याः कुतोऽपि गृहमेति पतिः प्रभाते सा खण्डितेति कथिता कविभिः पुराणैः” इति ॥ ७ ॥ श्रीजयदेवेति । हे विबुधाः पण्डिताः, इमं जयदेवेन कविना वर्णितं रतौ ववितायाः प्रतारितायाः खण्डितायाः प्रातरागताम्यनायिकानखाङ्क- चिन्हितप्रियाया विलापं परिदेवनं शृणुताकर्णयत । कीदृशम् । सुधातोऽपि मधुरम् । तत्र हेतुमाह – विदुधेति । विबुधालयतोऽपि देवालयेऽपि दुरापं दुष्प्रापमित्यर्थः । सुधा स्वर्गेऽपि सुलभा कृष्णकथामृतपानं तु तत्रापि दुर्लभमिति सुधापेक्षया धिकमाधुर्यमिति भावः । 'विबुधः पण्डिते देवे' इति विश्वः । सुरालयतोऽवमित्यत्र सप्तम्यर्थे तसिः । Google Dgilized by