पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ गीतगोविन्दकाव्यम् [सर्गः ८ वपुरनुहरति सव स्मरसङ्गरखरनखरसतरेखम् | मरकतशकलकलितकलधौतलिपेरिव रतिजयलेखम् || हरिहरि ॥ ३ ॥॥ चरणकमलगलदलक्तकसिक्तमिदं तव हृदयमुदारम् । दर्शयतीव बहिर्मदनद्रुमनवेकिसलयपरिवारम् || हरिहरि ॥ ४ ॥ 1 स्वभावारुणमपि । पुनः किंभूतं दशनवसनम् | कज्जलेन मलिने ये विलोचने तयो- चुम्बनेन विरचितो नीलिमा यत्र तत् । अत्र मलिनग्रहणं तन्नेन्नयोर्बहुपुरुषोपभो- ग्यत्वं व्यञ्जयति ॥ २ ॥ तव वपू रतिजयलेखमनुहरतीय अनुकरोतीय । इदं वपुर्न मया सर्वे जितमिति कामिनः प्रति कामजायाप्रेष्यलेखोऽयम् । अनेन स्त्रीप्रेष्य त्वेन तस्याधमत्वं सूचितमिति व्यङ्ग्योऽर्थः । किंभूतं वपुः । स्मरसकर इव सङ्गरे कामविलासे खरनखराणां क्षतरेखा यत्र । अत्रापि खरग्रहणं विलासभने हेतुः । तस्याः संबन्धिनं लेखमिति वपुर्नखक्षतानां लेखेनोपमेयगर्भविशेषणमाद्द | मरकतशकले कलि- ताया: कलधौतलिपेः संबन्धिनम् । अथवा लिपेरित्यत्र पञ्चमी। तत्रैव लिपरिवेति यो- जनीयम् । कलधौतलिपिमिवेति युक्तः पाठः ॥ ३ ॥ अपि च । चरणेति । अन प्रीतिविशेषं सूचयति । हे कृष्ण, तवेदं हृदयं बहिर्मंदनद्रुमस्य मदनो द्रुम इव तस्य नवकिसलयपरिवार नवपलवसमूहमिव दर्शयति । किंभूतं हृदयम् । उदारं महत् । पुन: किंभूतम् | चरणकमलादलक्तकसान्निध्यादुपभुक्तवनितापादपद्मतः गलतालक- अरुणमपि ते दशनवसनमवरस्तव तनोः शरीरस्यानुरूपं योग्यं रूपं कान्ति तनोति विस्तारयति । तनुरपि ते श्यामाघरोऽप्यधुना ते श्याम इति भावः । कीदृशम् । कम- लेनाञ्जनीभूतेन मलिने ये विलोचने नेत्रे तयोश्चुम्बनेन विरचितो नीकिमा नीलपद्मपत्रं तादृशं तस्याश्रुम्वनसमये लग्नं तन्नेत्राञ्जनेन श्यामीभूतस्तदधर एव स्फुटत्वेन धूर्ततां प्रकटयतीति भावः । नेत्रयोरपि चुम्बनमुक्तं कामशास्त्रे - 'गुझे नेत्रे ललाटे च चुम्बनं परिकीर्तितम् । इति । 'ओष्ठाधरौ तु रदनच्छदौ दशनवाससी' । इत्यमरः ॥ २ ॥ वपुरिति । हे कृष्ण, स्मरस्य कामस्य संगरे संग्रामे खराणां तीक्ष्णानां नखराणां नखानां रेखा यत्रैतादृशम् । तव वपुर्मरक्तशकले नीलमणिखण्डे कलिता निर्मिता या कलधौ- तलिपिः सुवर्ण इवाक्षरविन्यासस्तस्या इव रतिजयलेख सुरतविजयप्रशस्ति लेखनपत्रमनु- इरति सदृशीकरोति । अत्र कृष्णवपुषो नीलत्वान्मरकतशकलसाम्यम् । सुवर्णस्य कविसंप्रदाये आरक्तत्वेनैव वर्णनीयत्वान्नखक्षतस्य सुवर्णलिपिसाम्यं बोध्यम् ! 'संग- रोऽन्छि कृतौ युधि' इति विश्व: । 'पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।” इत्यमरः । 'गारुत्मतं मरकतं हिमगर्भहरिन्मणिः । इति च । 'भित्तं शकलखण्डे वा पुंसि' इति च । 'कलौत रूप्यहेम्रोः कलौतं कलध्वनौ ।' इति विश्वः । 'वर्णदूतः स्वस्तिमुखो लेखो वाचिकहारकः ।" इति हारावली ॥ ३ ॥ ननु मार्गे विस्मृत्य कण्ट- कादिक्षतवर्मनागच्छतो मे वपुषि कण्टकक्षतं दृश्यते न तु नखाङ्कमित्यत आइ- चरणेति । इदमुदारं तव हृदयं मदनद्रुमस्य कामवृक्षस्य हृदयान्तर्गतस्य नवकिसलयपरिवार नूतनपलवसमूहं बहिर्दर्शयतीव। कीदृशं हृदयम् । चरणकमलादन्यका मिनीपदपद्मागरूता Dgilized by Google