प्रातर्नीलनिचोलमच्युतमुरः संवीतपीताम्बरं
राधायाश्चकितं विलोक्य हसति स्वैरं सखीमण्डले ।
व्रीडाचञ्चलमश्चलं नयनयोराधाय राधानने
स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मजः ।। १० ।।
इति श्रीगीतगोविन्दे विप्रलब्धावर्णने नागरनारायणो नाम सप्तमः सर्गः ॥ ७ ॥
भिप्रायः । वसन्ततिलकावृत्तम् । अप्रस्तुतप्रशंसालङ्कारः ॥ ९ ॥ इदानीं सर्गान्ते वैष्ण- वानाशास्ते -- प्रातरिति । अयं नन्दात्मजः जगदानन्दायास्तु । किंभूतः स्मेरमु- खः स्मेरं सहासं मुखं यस्य स तथा । किं कृत्वा । राधानने नयनयोरश्वलं प्रान्त- माधाय आरोप्य । किंभूतमञ्चलम् । ब्रीडाचश्चलं लनया तरलम् । एतावता राधाननं कटाक्षवीक्षितं कृत्वेत्यर्थः । तदुक्तम्- 'यद्गतागतविश्रान्ति वैचित्र्येण विवर्त्तनम् । तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥ क्व सति । सखीमण्डले प्रातश्चकितं यथा स्यात्तथा खैरं स्वेच्छया हसति सति । किं कृत्वा । अच्युतं नीलनिचोल नीलपरिच्छदं विलोक्य । च पुनः राधाया उरः संवीतपीतांशुकम् । एवं वस्त्रविनिमयः सखीनां हास्ये कारणम् । इह हास्यो रसः । शार्दूलविक्रीडितं वृत्तम् । स्वभावोक्तिरलंकारः ॥ अत्र सर्गे शठो नायकः । अभिसारिका नायिका । तल्लक्षणं-' स्मरार्त्ताभिसरेत्कान्ते सारयेद्वाभिसारिका ' ॥ १० ॥
श्री एकलिङ्गाश्रयसोदरायां स्फीतोज्ज्वलायां रसिकप्रियायाम् ॥
श्री कुम्भकर्णेन विनिर्मितायां सर्गोऽगमत्सप्तम ऊर्जितायाम् ॥
इति श्रीयादिविमोक्षादिविश्वजनीनकर्म निर्मलीकृतान्तःकरणराजाधि- राजमहाराजश्री कुम्भकर्णविरचितायां गीतगोविन्दटीकायां रसि- कप्रियायां सप्तमः सर्गः समाप्ति समगादिति । निर्मल- मतीनामभिमतपरिपूर्तिः स्वादिति शिवम् ॥
त्तम् । 'भगिनी स्वसा' इत्यमरः । कामबाणा अपि-' संमोहनः क्षोभणश्च दद्दनः शोषणस्तथा । उच्चाटनश्च कामस्य बाणाः पच प्रकीर्तिताः' इति ॥ ॥ (अत्र 'सान्द्रेत्या- दि' लोकटीका नोपलब्धादर्शपुस्तके) ॥ १० ॥
मन्तस्तमांसि हरती नितरामनल्प-
लेहानुवर्तिरतिन विभावयन्ती ।
गूढान्प्रदार्थनिचयान्स्फुटतां नयन्ती
दीपप्रभेव रुचिरा रसमञ्जरीयम् ॥ १ ॥
इति श्रीमहामहोपाध्याय श्रीशङ्करमिश्रविरचिताय श्रीशालिनाथकारितायां गीतगोविन्दीकार्या रसमञ्जरीसमाख्यायां सप्तमः सर्गः ॥
Digitized by Google