पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् बाधां विधेहि मलयानिल पञ्चबाण प्राणान्पृहाण नगृहं पुनराश्रयिष्ये । किं ते कृतान्तभगिनि क्षमया तरङ्गै- रङ्गानि सिव मम शाम्यतु देहदाहः ॥ ९ ॥ [सर्गः ७ इव मनो दुनोति ॥ अपि च अमृतदीधितिलालमिव मनो दुनोति । एवमप्यर्थे तस्मिन्नप्यदये हृदयं पुनर्बलाइलते तदभिमुखीभवति । किं तर्हि क्रियते स्त्रैणस्थि तिरियं कुवलयदृशां निकामनिरङ्कुशः कामो वाम एव वर्त्तते । निकामनिरङ्कुश अतिशयोच्छृङ्खलः । अत्र हरिणी वृत्तम् । विरोधालङ्कारः ॥ ८॥ इदानीं कामोपतप्ता मलयानिलादीनधिक्षिपति । बाधामिति । हे मलयानिल, बाधां विधेहि पीडायां कि प्रतीक्षसे । हे पञ्चबाण, प्राणान् गृहाण । पञ्चभिर्बाणैः पश्चापि प्राणांस्त्वं गृहाण | भवत इदमेव प्रयोजनम् । यस्मात्स्मरोऽपि तप्तं जनमुपताप्य गृहाभिमुखीक्रियते एतदर्थमेव स्वभावपरित्यागेनाप्युपकृतिर्विधया । परं तु अहं बाध्यमानापि गृहीत- प्राणापि पुनर्गृहं नाश्रयिष्ये श्रीकृष्णमेव शरणं व्रजिष्यामीति तावुपालभ्य पुनरु- दीर्णस्मराथ यमुनामाह - हे कृतान्तभगिनि, यमस्खसः, मलयानिलपत्रबाणौ शैत्य- संभोगकारणमपि पीडयतः । नहि तर्हि त्वं यमस्य भगिनी ताभ्यां प्राणेषु गृहीतेषु धातुः किमुत्तरं दास्यसीति । तेन तव क्षमया क्षान्त्या किं, भ्रातुर्हितं समाचर मत्प्रा- णार्पणेन । नेत्याह । तरङ्गैरूर्मिभिर्मम गात्राणि सिव । तेषु सिकेषु माधवप्रास्या देहदाहः शाम्यतु । तरङ्गसेकेनापि तदलामे प्राणेषु गतेषु देहदाहः शान्तिमेष्यतीत्य- वायुः शिखीवाभिरिव दुनोति । अयं सुधारहिमश्चन्द्रो विषमिव दुनोति । तस्मिन्नेव कृष्णेऽदये दयारहिते हृदयं पुनर्भूयोऽपि वळाडठाइलते निवार्यमाणमपि तत्रैव गच्छती- स्वर्थः । अतः कुबलयदृश कमलनेत्राणां कामो निकाममत्यर्थ निरङ्कुशस्त्यक्तमर्यादो- इत एव मे प्रतिकूलः । अन्योन्यानुरागो हि कामो मनोहरो भवति । अत्र तु स मयि नीरागः केवलं ममैव तस्तत्र धावतीति वामता कामस्येति भावः । अत्र सखीनां संवासस्य रिपुषद्, हिमानिलस्य वन्दिवत् सुधारश्मे विषददपकारित्वं विरुद्धमिति विरुद्धालङ्कारः । ' शिखिनौ वर्णिनी' इत्यमरः ॥ ८ ॥ संप्रतिबिरहदुःखमसहमाना मक्यानिलादीन्प्रार्थयति – बाधामिति । हे मख्यानिल मलयसंबन्धिवायो, बाधां पीडां विषेहि कुरु । अत्र मलयजचन्दनाश्रयत्वेन महाशयोऽतस्तदाश्रितस्य ते याचक- प्रत्याख्यातं नोचितमिति सूचनाय मलयानिरूपदोपादानम् | हे पञ्चषाण, मम प्राणा- न्गृहाण । पञ्चभिर्वाणैः पश्चानामपि प्राणानां गृहणं कामयोचितमिति सूचनाय पथ- पदोपादानम् । ननु कृष्णेन चेदुपेक्षिता तदा गृहं किमिति न गच्छतीयत आइ – न गृहमिति | गृहं पुनः भूयो नाधयिष्ये । तेन बिना गृहमपि मे संतापजनकमेव भविष्यतीति भावः । हे कृतान्तभगिनि, ते क्षमया सहिष्णुतया किम् । कि प्रयोजन- मित्यर्थः । तरङ्गैरूपमैभिर्मेऽङ्गानि सिथ लावय। देहदाहो विरहजन्यो देहदाह शाम्यतु निवर्तताम् | कृतान्तो निर्दयस्तद्भगिन्यास्तेऽपि दया न युक्तेत्याख्यापनाय कृतान्तेत्युपा- । Dgilized by Google ६ P. 1