पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७] रसिकप्रिया-रसमञ्जयाख्यटीकाद्धयोपेतम् ११३ मनोभवानन्दन चन्दनानिल प्रसीद रे दक्षिण मुञ्च वामताम् । क्षणं जगत्माण विधाय माधवं पुरो मम माणहरो भविष्यसि ॥ ७ ॥ रिपुरिव सखीसंवासोऽयं शिखीव हिमानिलो विषमिव सुधारश्मिर्यस्मिन्दुनोति मनोगते । हृदयमदये तस्मिन्नेवं पुनर्वलते बला- तकुवलयदृशां वामः कामो निकामनिरङ्कुशः ॥ ८ ॥ सखीं प्रोच्य अन्तरा पुनः सव्याजं कालविलम्बं कृत्वा पुनः स्मरशरासहा मलयानि- लमुपालधुमाह – मनोभवेति । हे चन्दनानिल, जगदाल्हादक प्रसीद । विपरीत- लक्षण क्षमां कुरु । कथं वैपरीयम् । यतः जगदाल्छादकखरूपप्रच्युत्या मम रिपोर्म- नोभवस्य आनन्दमकरोत् । अतो मनोभवानन्दन प्रसीद क्षमां कुरु । दक्षिणोऽहमिति कृत्वा हिताहितलक्षणवक्रतानभिज्ञत्वान्नोपालभ्योऽहमिति वदसीति चेत्तर्हि जि- तम् । हे दक्षिण, क्षणं क्षणमात्रं वामतां मुख । कृतजगत्प्राणस्य मे सर्वसाधारण्येन नेयं पद्धतिरिति चेत् । हे जगत्प्राण अङ्गीकृतजगत्प्राण त्वं माधवं पुरो- धाय अग्रे कृत्वा सांप्रतमेव मम प्राणहरो भविष्यति । तर्हि साधु चेष्टितम् । नाहमस्या मरणनिमित्तं किं तु माधव इतीदमेवावामताया विलसितमिति । अत्र वंशस्थं वृत्तम् । अतिशयोक्तिरलङ्कारः ॥ ७ ॥ इदानीं वचित्तमेवोपालभते - रिपुः रिवेति । हे सखि, यस्मिन्यते सति अन्यत्र स्थिते सति अथवाऽज्ञातवरूपे सति अयमनुकूलोऽपि सखीसंवासः रिपुरिव मनो दुनोति । अनु च । शीतो वायुः ज्वलन , त्यर्थः ॥ ८ ॥ संप्रत्यनिलमेव संतापदं मत्वोपालम्भते–मनोभवेति । हे चन्दनानिल, चन्दनसंबन्धिवायो, मे मम प्रसीद प्रसादं कुरु । हे दक्षिण, सर्वेषां विलासिनामनुकू- कस्वभाव, नामतां प्रतिकूलतां मुध । अत्र चन्दनतरुसंगतस्य वामत्वे नोचितमिति चन्दनानिलदक्षिणपदाभ्यां ध्वनितम् । वामत्वेन हेतुगर्भविशेषणमाह - मनोभवेति । मनोभवं काममानन्दयतीति मनोभवानन्दनः । तथा च । मम बैरी कामस्तं यदान - न्दयसि सदेव प्रतिकूलमाचरसीति भावः । यदि च वामतां न मुसि तदा माधवं कृष्णं जनं मम पुरोऽये निधाय कृत्वा पश्चात्तदर्शनं कृत्वाथ प्राणहरः प्राणानां हर्चा भवि• व्यसि । यथा विरहिणीं मां व्यथयति तथा मया विरहितं तमपि संसापय तेन मदन्तिकं स आयास्यतीति भावः । कीदृशः । जगलाणहरणे चायोः सामर्थ्य ध्वनितम् । यद्वा चन्दनानिल, क्षणं वामतां मुध, माधवं पुरो निधाय पश्चान्मम प्राणहरो भविष्यसी- त्यन्वयः । शेषं पूर्ववत् । जगलाण जगत प्राणभूत । तु तेन कृष्णस्थानयनतलाणानाम- संध्ये (?) प्रति ये च 'द्रविणे चाति सुन्दरे' इति विश्व: । 'दक्षिणः सरलावामपरच्छन्दा- नुवर्तिषु' इति च ॥ ७॥ अधुना ममैवापराधो नान्यस्येत्याइ–रिपुरिवेति । यस्मिन्कृष्णे मनोगते चेतसि कृते सति सखीसंवासः सखीभिः सहावस्थानं रिपुरिव शत्रुरिव दुनो- व्युपतापयति । सखीदृष्ट्वा तत्कृतालङ्काररचनापरिहासवासभवनपरिष्कारादिस्मरणेना- धिकतर उपतापो भवतीति भावः । अयं च हिमानिलो हिमगर्भोऽप्यतिशीतलो d by Google Dilized by