पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ गीतगोविन्दकाव्यम् [सर्गः सकल भुवनजनवरतरुणेन । वहति न सा रुजमतिकरुणेन || सखि या० ।। ७ ।। श्रीजयदेवभणितर्वचनेन । प्रविशतु हरिरपि हृदयमनेन | सखि या० ॥ ८ ॥ चिवसनश्च तेन । अथवा कनकस्य निकषः निकषोपलरेखा तत्कान्तिविमलवस्त्रेण । सा गोपिका परिजनहसनेन न श्वसिति । निःश्वासवती न भवति । पक्षे या काषायवसना- दिना संगता भवति सा परिजनैरुपहसिता दीर्घान्निःश्वासान्मुबत्येव ॥ ६ ॥ अपि च । सकलेति । किंभूतेन हरिणा | सकलभुवनजनश्रेष्ठतरुणेन सातीव निर्भररसेनापि रुजं पीडां न धारयति । या किल सकलेष्वपि भुवनेषु वरतरुणेनोपभुज्यते त स्यास्तु एकैकस्यामि वित्तेन शोको भवतीति निन्दा ॥ ७ ॥ अपि च । श्रीजयदेवेति ।. अनेन श्रीजयदेवभणितं च तद्वचनं च तेन हेतुना हरिः श्रीकृष्णः हृदयं प्रविशतु । अर्थाद्राधायाः । अथवा अयं हरिः हृत्प्रविशतु । अपि शब्दासदारोपकरणवचनानि च ॥ तथा च सङ्गीतराजे -' रागो वराटिका यत्र तालो वर्णयतिस्तथा । पदानि स्वेच्छयालमपभूषितानि यथाद्युति ॥ ततः स्वराच पाटाश्च ततः पद्यानि कानिचित् । इति नारायणपदान्मदनायासनामकः ॥ प्रबन्धः क्षितिनाथेन लोकनाथस्य न र्णितः ॥ इति नारायणमदनायासनामा षोडशः प्रबन्धः ॥ ८ ॥ चेतो यास्यतीति जनानां हास्येन न श्वसिति न संतापनिःश्वासं त्यजति । कीदृशेन वनमालिना | कनक- निकष : सुवर्णकषकपट्टिका तस्यैव रुचिर्दीप्तिस्यैतादृशं शुच्यनुपहतं वस्त्रं यस्य तेन । अत्र कनकपदेनैव पीतत्वे प्राप्तेऽपि स्निग्धत्वप्राप्तये निकषपदोपादानम् । अथवा या वन- मालिना रमिता सा परिजनइसनेन न श्वसिति । अपि तु वसित्येवेत्यर्थः । निकषः कषपट्टिका' इति धारावळी । 'शुचिः शुद्धेऽनुपहते' इति विश्वः ॥ ६ ॥ सकलेति । या वनमालिना रमिता सातिकरुणेनातिशयितकरुणारसेनोपलक्षिता सती रुजं तद्विश्ले- षजन्य व्याध्यवस्थां तद्वन्न वइति धारयति । कीदृशेन वनमालिना । सकलभुवने 1 समस्तकोके ये जनास्त्रेभ्योऽपि वरतरुणेन श्रेष्ठतरुणेन । अथवा या वनमालिना रमिता सातिकरुणेनोपलक्षिता रुजं न वहति । अपि तु वहत्येवेत्यर्थः । अस्मिन्पक्षेऽतिकरुणेनेति कृष्णस्य विशेषणम् । तदतिक्रान्ता करुणा दया यस्य तादृशेन निर्दयेनेत्यर्थः । 'करुणस्तु रसे वृक्षे कृपायां करुणा मता' इति विश्वः ॥ ७ ॥ श्रीजयदेवेति । अनेन जयदेव- भणितमिलनेन श्रीजयदेवेन कविना भणितं वर्णितं यन्मिलनं कृष्णस्य कामिन्या सचेत्यर्थः । त्वा॑ां ते(?)हरिरपि कृष्णोऽपि हृदयमर्थाद्वातॄणां श्रोतॄणां प्रविशतु । यहा श्रीजयदेवभणितस्य यन्मिलनं संबन्धोऽध्ययनगानरूपस्तेन इरिरपिं हृदयं प्रविशत्वि- T १ ' भणितमिलनेन' इति पाठः । Dgilized by Google