पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् अमृतमधुरमृदुतरचचनेन । ज्वलति न सा मलयजपवनेन | सखि या० ॥ ३ ॥ स्थलजलरुहरुचिकरचरणेन । लुठति न सा हिमकरकिरणेन ॥ सखि या० ॥ ४ ॥ सजलजलदसमुदय रुचिरेण । दलति न सा हृदि विरहेण ॥ सखि या० ॥ ५॥ कनकनिकषरुचिशुचिवसनेन । श्वसिति न सा परिजनहसनेन | सखि या० ॥ ६ ॥ भवति । पक्षे विलासकलाविमुखेन । केवलं प्रसारितमुखेन संभोगमाप्नोति । सा मदनबाणैर्मनसि न विध्यते । अपि तु विध्यत एव ॥ २ ॥ अपि च | अमृतेति । किंभूतेन हरिणा । अमृतवन्मधुरतरं कोमलं वचनं यस्य तेन । सा मलयानिलेन न ज्वलति न दीप्यते । अतिप्रियवचनस्य दाता न भावं योतयति । तेन 'प्रियवाक् स्त्रीशीलः स्त्रीणां भवति वल्लभः' इति वाल्लभ्यनिरासान्मनोऽनवस्थानान्मलयमारुतेन ज्वलत्येव ॥ ३ ॥ अपि च । स्थलेति । किंभूतेन हरिणा | स्थलकमलकान्तिकर- चरणेन सा गोपिका चन्द्रकिरणेन न लुठति न भूमौ परिवर्तते । ततः पक्षे स्थलक- मलग्रहणेन तदस्य तस्यापद्दायिलमुक्तम् ॥ ४ ॥ अपि च । सजलेति । किंभूतेन हरिणा सजलजलदोदयवद्दीप्तिमता / सा गोपिका हृदि दुःसहविरहभरेण न दीर्यते । पक्षे । अत्र सजलजलदग्रहणेनैव विरहेण संयोगेऽपि प्रियविरहसाम्यमिति निन्दार्थः ॥ ५ ॥ अपि च । कनकेति । किंभूतेन हरिणा | कनकनिकषश्यामरुचिश्वासौ शु- तद्रचलितं मनोरं मुखं यस्य तेन । मुखहास्यत्वेन विकसितपमसाम्यं बोध्यम् । अथ च । या विकसितेन सरसिजललितमुखेन वनमालिना रमिता सा मनसिजविशिखेन न स्फुटति । अपि तु स्फुटत्येवेति पूर्ववत् ॥ २ ॥ अथ च । अमृतेति । वनमालिना रमिता सा मलयजपवनेन मलयगिरिजातेन वातेन न ज्वलति न दीप्यते । कीदृशेन वनमालिना । अमृतादपि मधुरं मृदुतरभतिशयेन कोमलवचनं यस्य तेन । अमृतेत्याधुचितविशेषणो पपत्त्या सामृतसेकेन ज्वलनाभावस्योचितत्वात् । अथ चामृतमधुरमृदुतरवचनेन वन- मालिना या रमिता सा मलयजपवनेन न ज्वलति । अपितु ज्वलत्येवेति ॥ ३ ॥ स्थळजलेति । कीदृशेन वनमालिना स्थलोद्भवं जलरुई कमलं तद्दु चिर्ययोस्तादृशौ करो चरणौ यस्य तेन । अथ च या वनमालिना रमिता सा हिमकरकिरणेन न कुठति । अपि तु लुरुत्येव ॥ ४ ॥ सजलेति । अथ च या वनमालिना रमिता सा विरहाधिक्येन हृदि हृदये न दलति न दीर्यते । पुनः कीदृशेन । सजलो जलसहितो यो जलदो मेषस्तत्समुदयद्रुचिरेण । अथ च या वनमालिना रमिता सा विरइभरेण हृदि न दलति । अपि तु दळत्येवेत्यर्थः ॥ ५ ॥ कनकेति | या वनमालिना रमिता सा परिजनानां इसनेन श्यती लज्जा रोदितीत्यादि परिजनहासेन । यद्वां परितः सर्वतो । Dilized by ★ Google