पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ७ इह रसभणने कृतहरिगुणने मधुरिपुपदसेवके । कलियुगचरितं न वसतु दुरितं कविनृपजयदेवके । रमते० ॥८॥ नायातः सखि निर्दयो यदि शठस्त्वं दूति किं दूयसे स्वच्छन्दं बहुवल्लभः स रमते किं तत्र ते दूषणम् । । धरसोदरे दुष्टे बलभद्रभ्रातरि कामपि आत्मसदृशं खलां सुदृशं लक्षणया विरूपनेत्रां रमयति सति । अत्र हलधरशब्दो मामनुकूलां विहायान्यासक्तोऽन्यां रममाणस्य तस्य पामरत्वं द्योतयति। ईदृशस्यास्य प्रतीक्षायां विदग्वया न स्थातव्यमिति भावः ॥ ७॥ अपि च । इहेति । कविराजजयदेवके कलियुगेन रचितं दुरितं न वसतु न तिष्ठतु | किंभूते रसभणने रसोद्दीपके | कर्तरि ल्युः । पुनः किंभूते । कृतहरिगुणने कृतहरि- कथाभ्यासे । पुनः किंभूते । मधुरिपुपदसेवके । अथ च इह रसभणने इति प्रबन्धवि- शेषणत्वेन योजनीयम् । इयमष्टपदी स्तुतिनिन्दापरत्वेन बोद्धव्या ॥ तथाच सङ्गी तराजे द्रुतमण्ठेन तालेन द्रुतेनैव लयने च। महारे रसराजे स्यात्पदानां संततेः पुनः । स्वरप्रामस्तथा पाटास्तेना अपि यथाक्रमम् । हरिरसमन्मथाद्यस्तिलकः प्रबन्धराट्' ॥ इति हरिरसमन्मथतिलकनामा पञ्चदशः प्रबन्धः ॥ कृष्णानागमने हेतुं दूतीविषादो- घनयपुरःसरं सोत्कण्ठा राधा प्रकटयति–नायात इति । हे सखि, राधे, स मया बहुप्रेयस्यापि आहूतः परं निर्दय इति नायातः । अथ राधाह–हे दूति, स यदि शठः धूर्तः तर्हि किं दूयसे त्वं मा विषादं कार्षीः । त्वं दूतीकर्मण्येव प्रभुः ॥ दूत्याह-हे राधे, अहं अत एव दूये । स बहुवल्लमः सन् बव्यो वल्लभाः प्रेयस्यो यस्य स: खच्छन्दं यथा स्यात्तथा रमते क्रीडति । पुना राधाह- तत्र ते किं दूषणं न हि त्वं कि किमित्यवसंस्थितास्मीत्यर्थः । अत्र च इलधरसोदरत्वेन कृष्णस्योपादानम् | हलघरो ग्राम्यस्तत्सोदरोऽयमपि तथैव भविष्यतीति तस्य मां विहाय कयाचिङ्गोपिकया सह केलिकरणमुचितमेवेति सूचनाय । 'विटप: पछवे शृङ्गे विस्तारे स्तम्बशाखयोः' इति विश्व: । अवसामेति 'वस निवासे' इत्यस्य धातोरुतमपुरुषैकवचनम् । लङ् । स्वाधीनभर्तृ- केयं नायिका । तदुक्तं शृङ्गारतिलके–'यस्या रतिगुणाकृष्टः पतिः पार्श्वे न मुचति । विचित्रविभ्रमासक्ता स्वाधीननायिका यथा' इति ॥ ७ ॥ इहैतत्कान्यकर्तरि कविनृप- जयदेवके कलियुगे चरितमाचरितं कृतं दुरितं न वसतु न तिष्ठतु । कीदृशम् । रसस्य कृष्णविषय शृङ्गाररसस्य भणनं कथनं यस्य तादृशे । अत एव कृतं हरेर्गुणनं चिन्तनं येन तादृशे । अत्र हेतुमाइ -- मधुरिपोः कृष्णस्य पदसेवके ॥ ८॥ पूर्वमन्यस्याः कस्या- श्चित्कृष्णेन सद्द केलीमुत्प्रेक्ष्य सख्या अग्रे वर्णितवती । संप्रति दूर्ती कृष्णेनोपभुक्तां शकमाना वक्रोक्त्या दूर्ती प्राइ- मायात इति । हे सखि, दूति, दूत्यकर्मकुशले, स निर्दयो दयारहितोऽत एव शठः कृतगूढमदपराधो यदि नायातस्तदा किं दूयसे किमिति दुःखिता भवसि । स तु शठो भवति । किंतु धृष्ट: स्वच्छन्दमेव रमतेऽतो कि दूयसे इत्याह ----स्वच्छन्द मिति । स कृष्णो बहुवलमोऽनेकनायिका प्रियोऽत एव स्वच्छन्दं निःश रमते । यया कयाविद्रोपिकया सह केलिं करोति । तत्रार्थे ते तब कि दूषणम् । ● Dglised by Google