पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ļ ļ सने कामस्य हेमपीठे | किंभूतं रसनम् | तोरणहसनम् । रतिगृहे तोरणसदृशमिति यावत् । किंभूते रतिगृहे । कृतवासने कृतं वासनं गन्धादि यस्य । गृहं च अधिवासपरि- कल्पितासनादि रमणीयं भवति । अत्र कनकशब्दः स्मरहरप्रियत्वेन कामस्योद्वेजको भवतीति ध्वन्यते ॥ ५ ॥ अपि च । चरणेति । हरिस्तस्यावरणकिसलये याबकाभ- रणं पूरणं जनयति । किंभूते | हृदि योजिते योगं प्रापिते । अर्थात् श्रीकृष्णस्य हृदि । किंविशिष्टे चरणकिसलये । कमलानिलये लक्ष्मीनिवासस्थाने । पुनः किंभूते | नखा एक मणिगणा: आरक्तत्वात् । तैः पूजिते । किंभूतं यावकभरणम् । चरणस्य स्वभावलोहितवाद्वहिर्भूतमाच्छादकम् । किंभूते हृदि । कमलानिलये लक्ष्मीनिवासस्थाने । पुनः किंभूते । नखमणिगणपूजिते । तया दत्तनखत्वात् ॥ ६ ॥ अपि च । रमय- तीति । हे सखि, वद मौनं विसृज । विरसं यथा स्यात्तथा चिरमिह विटपोदरे निकुञ्जेऽफलप्राप्तिलक्षणरहितं चिरं किं अवसं किमुषितास्मि । क्व सति । खलद्दल- 1 7 सर्गः ७] रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् चरणकिसलये कमलानिलये नखमणिगणपूजिते । बहिरपवरणं यावकभरणं जनयति हृदि योजिते ॥ रमते० ॥ ६ ॥ रमयति सुदृसं कामपि सुभृशं खलहलधरसोदरे । किमफलमवसं चिरमिह विरसं वद सखि विटपोदरे || रमते ० ७ ) । । 3 स्थानं प्राप्तं तथापि नित्यं तत्सान्निध्यसूचनायैतदुक्तम् । 'अनं प्रतीकोऽवयवोsपघनोऽथ कलेवरम् ।" इत्यमरः । 'सिंहासनं तद्वैमम्' इत्यपि । 'रसनं स्वादने पाने । रसना काधीजिव्ड्यो रसनं चापि ' इति विश्वः । 'मङ्गल्यसक्तोरणो भषेद्वन्द नमालिका इति क्षीरस्वामिलिखितकोषः । 'वसनं वसने चाथ स्थाने ज्ञाने धूपने' इति विश्वः ॥ ५ ॥ 1 किं च । चरणकिसलये चरण एब किसलयमातास्त्रत्वात्कोमलत्वाच्च । तत्र यावकभरणं जनयति । कीदृशे । कमलायाः श्रियो निलयो आश्रयः । कीदृशे । नखा एव मणिगणा मणिसमूहास्तैः पूजितेऽलङ्कृकृते । कीदृशं यावकभरणम् । बहिर्भूतं दूरीभूतमपवरणं यस्य तादृशम् । स्पष्टमित्यर्थः । पुनः कीदृशे । हृदि हृदये योजिते । अनुरागातिशयानापितं स्वहृदये तच्चरणकिसंलयं कृत्वा यावकं च रचयतीत्यर्थः । यद्वा | हृदि तस्यैव विशेषणम् | कीशे हृदि । कमलाया लक्ष्म्या निलये आश्रये । लक्ष्म्याः कृष्णवक्षस्येव सर्वदा स्थितिः | पुनः कीदृशे । नखा एव मणिगणास्तैर्भूषिते । लक्ष्म्या अपि गृहे तदीयचरणकिसलयं ददाति । तस्य सौभाग्यातिशयो ध्वनितः । अत्र चरणकिसलये नखमणिगण अत्यत्र रूप्यमानयोः किसलयत्वमणिगणत्वयोः परस्परमयोगादयुक्तं नामरूपकम् । तदुक्तं द- ण्डिना---' इर्द मन्दस्मितं ज्योत्स्ना स्निग्धनेत्रोत्पलं मुखम् । इति ज्योत्लोत्पलयोगादयुक्तं नाम रूपकम्' इति । 'कमलापीवरयोः' इति विश्वः । 'लाक्षा रक्षा जतु कीबे याव- काळचकामयः' इति विश्वः ॥ ६ ॥ रमयतीति । एवं स्वमेव तत्तदाभरणं विधाय कामपि सुदृशं शोभने दृशौ नेत्रे यस्यास्ताम् । खलो दुर्जनो यो हलधरो बलभद्रस्तस्य सोदरी भ्राता कृष्णस्तत्सुभृशमतिशयेन रमयति । हे सखि, वद कथ्य इंह विटपोदरे कुञ्जमध्ये विरसं रसशून्यं यथा स्यादेवमत एवाफलं यथा स्यादेवं चिरं बहुकालं व्याप्य Google Dilized by