पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः ७ । रतिगृहजघने विपुलापघने मनसिजकनकासने । मणिमयरसनं तोरणहसनं विकिरति कृतवासने ॥ रमते० ॥ ५ ॥ कराब्जपत्रे । शोणे करतले नीलमरकतसंचयः सभ्रमरपद्मशोभामनुकरोति । तेन तयोः यावकमण्डनकमनीयतान्यायेन औपाधिकस्नेहो रसाभासत्वेन व्यक्जितः । मरकत- गलयं मधुकरनिचयमेव वितरति प्रयच्छति । किंभूते करतले । हिमशीतले । अत्र हि हिमशीतलशब्दस्तस्मिन्कामाभावं द्योतयति । तथा चाह - 'अनुरागोऽनुरक्तायां रसावह इति स्थितिः । अभावे त्वनुरागस्य रसाभासं जगुर्बुधाः ॥ ४ ॥ अपि च । रतीति । स तस्या रतिगृहजघने मणिमयरसनं मेखलां विकिरति । रतिगृहं च तजघनं च। जघनस्य रतिगृहेति नाम्नि सत्येव रतिं गृह्णाति । रतेरावासप्रस्थापितत्वेन विशेषणपरता । किंभूते । विपुलापघने विपुलावयचे । पुनः किंभूते । मनसिजकनका- मार्दवेन शैत्येन चाभिभूतं विसशकलं सृणालखण्डं येन तादृशे । पुनः कीदृशे । कर- तलमेव नलिनीदलं पद्मं यत्र तादृशे । यद्वा । करतलमेव नलिनीदलं पद्मिनीपत्रं यत्र तादृशे । पुनः कीदृशे । हिमवच्छीतले । अत्र यद्यपि करतलस्य पद्मिनीपत्रत्वरूपणं न विरुद्धमिति । अत्र द्वितीयव्याख्याने मरकतवलयस्य पद्मरूपणमाचक्षोपलभ्यमित्येक देशविवर्तिरूपकम् । तदुक्तं काव्यप्रकाशे– 'श्रौता आर्थाश्च ते यस्मिन्नेकदेशविवर्तितम् । अस्यार्थ:- केचन पदार्थाः श्रौताः श्रुतिपण्डिताः (?) साक्षाच्छन्दाः पठिता: केचन आर्थास्तदन्यार्थानुपपत्तिगम्या यत्र रूपके तदेकदेशवतीति । 'नलिनी पद्मिनी पद्म- व्योमसिन्धुसरोवरे इति विश्वः । 'मरकतो नीलमणिः' इति ॥ ४ ॥ किं च । रतिगृहेति | रते: शृङ्गारस्य गृहे आश्रये मणिमयरसनं मुक्तामय मेखलां विकिरति क्षिपति । अत्र विकिरतीत्यनेन काचीवन्धनसमये श्रोणी स्पर्शजनितसाध्वसवशात्कम्प्यं- मानकरा क्षिपति न तु बनातीति ध्वनितम् । कीदृशे । विपुलापघंने विपुलो कि स्तीर्णोऽपघनोऽवयवो यस्य तादृशे । अति मांसल इत्यर्थः । पुनः कीदृशे । मन- सिजस्य कामस्य कनकनिर्मितसिंहासन इव । विस्तीर्णत्वादतिगौरत्वाच्च जघनस्य कनकासनसाम्यम् 1 अत्र जघनस्य कनकासनत्वरूपणमनुपठ्यमानमनसिजस्य महाराजत्वमाजी बतीत्येकदेशनिवर्ति इत्यादि रूपकमिति । कीदृशं मणिमयरसनम् । तोरणस्य भङ्गलस्य स्रजो इसनमुपहासो यस्मात्सादृशम् अन्योऽपि यदि सिंहासन उपविशति तदा तत्र परिजनैर्बन्दनमालिका बध्यते । मनसिजसिंहासनीभूते तस्या जघने क्षुद्रमणिका रूपमाङ्गल्यस्रणयं बनातीति भावः । पुनः कीदृशे जघने । कृतं वासनं यां समाहत्यापि कार्थी बन्नाति । कृष्णेऽतिलज्जया नायिकया कृतं शाटिकादिरूपं वस्त्रं यत्रे- त्यर्थः । यद्वा । कृतं वासनं श्रीकृष्णवशीकरणाय धूपविशेषो यत्र तादृशे । अत एव तया वशीकृतः सन् मामवधूय तया सह रमत इति भावः । धूपविशेषश्च स्वदेहे नाय- कवशीकरणाय च नायिकया कर्तव्य इति कामशास्त्रे उक्तम् । तदुक्तं रतिरहस्ये-- 'वर- युवतीमलयोद्भवसूक्ष्मैलासर्जकृष्टसिद्धार्थैः । सर्वाङ्गीणो धूपः सर्वजनानां वशीकरणम् ॥ इति । यद्वा । कृता सत्कान्तिदर्शनास्कृष्णेन वासनाभोगेच्छा यत्र तादृशे । यद्वा कृतवासनमर्थात्कामेन स्थानं यत्र तादृशे । यद्यपि मनसिजकनकासन इत्यनेनैव काम- Dqlized thy Google