पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् घटयति सुघने कुचयुगगगने मृगमदरुचिरूषिते । मणिसरममलं तारकपटलं नखपदशशिभूषिते ॥ रमते० ॥ ३ ॥ जितविसशकले मृदुभुजयुगले करतलनलिनीदले । मरकतवलयं मधुकरनिचर्य वितरति हिमशीतले ॥ रमते ० ॥ ४ ॥ मानां वा वातारिवृक्षाणामप्रभागा यस्मिन् । रमणीपक्षे कुलटानां सुखरूपम् । यथा मृगः कानने बली तथात्र कामः । अत्र मृगशब्देन तत्र रममाणस्य हरेःपरुषत्वं (पशुत्वं ) व्य- ज्यते ॥२॥ अपि च । घटयतीति । स तस्याः कुचयुगगगने कुचयुगं गगनमिव बृह- त्त्वात् । अमलमणिहारं हीरकसरं हीरकहारं तारकपटलं तारकासमूहं घटयति योजयति । किंभूते | सुघने सुतरां घने पीने । गगनपक्षे शोभनघने । किंभूते स्तनयुगे । मृगम- दरुचिरूषिते । कस्तूरीपरिष्वङ्गेन निवारितसुरतश्रमजले । गगनपक्षे मृगमदकान्तियुक्ते रुक्षे च भावेन । पुनः कथंभूते । नखपदं शशीव तेन भूषिते । पक्षे । नखपदमिव शशी तेन भूषिते । अत्र तस्मिन्नभिलाषशून्यत्वं गगनपदव्यङ्ग्यम् ॥३॥ अपि च | जितेति । स कृष्णस्तस्या जितबिसशकले भृणालखण्डसदृशे भुजयुगले वर्त्तमाने । करतलनलिनीदले येन तादृशे 1 कीदृशं कुसुमम् । चपला इव रक्तविद्युदिव सुषमातिशयिता शोभा यस्य तादृशम् । यद्वा चपलावत्सुषमं चारु । अत्र विरहतापशामकतयातिश्यामलतया चिकुराणां सजलमेघसाम्यम् । केशप्रथितकुरनककुसुमानां चान्तरान्तरा दृश्यमानतया विरहिण संतापजनकतया रक्ततया लोहितविषुत्साम्यम् । 'चिकुरः कुन्तलो बाल: कचः केञ्चः शिरोरुहः' इत्यमरः । 'स्मृतः कुरबकः शोणाम्लानझिण्टीप्रभेदयोः' इति विश्वः । 'कुसुमं पुष्पफलयोः' इत्यपि । 'चपला कपिलाविद्युत्युंश्चलीपिप्पलीषु च' इत्यपि । ‘सुषमं चारुसमयोः सुषमा परमायुतौ इति च ॥ २ ॥ केल्यन्तरमाइ-घटयतीति । कुचयुगं गगनमिव । बृहत्वात् । तत्रामलं निर्मलं मणिसरं मुक्ताहारं तदेव तारक समू घटयति प्रापयति । कीदृशे कुचयुगगगने । सुड्डु अतिशयेन घनो विस्तारो यत्र तादृशे । मृगमदस्य कस्तूर्या रुच्या दीया रूषिते व्याप्ते । पुनः कीदृशे । नखपदं नखाङ्कस्तदेव शशी तेन भूषितेऽलङ्कृते । नखक्षतं चेदर्हेन्दुसाम्यं बोध्यम् । तदुक्तं पञ्चसायके-'अर्द्धेन्दु संकाशमिदं नखक्षतमद्धेन्दुसंशं कथितं समासतः 1 कक्षानितम्बस्तनपार्श्वमध्ये दात- ब्यमेतत्करजं सदैव’ इति । अत एवात्र शशिपदमप्यर्द्धचन्द्रपरं बोध्यम् । पूर्णचन्द्रस्य तत्साम्याभावात् । अत्र कुचयुगस्य विस्तीर्णत्वात्कस्तूरिकया श्यामत्वाकरूपचन्द्रवत्वा- द्वगनत्वेन निरूपणम् । गगनस्यापि कविसंप्रदाये श्यामत्वेनैव प्रसिद्धेः अत एव सुधन इत्यादिभिस्त्रिभिर्विशेषणैर्गगनत्वनिरूपणौपमकविशेषणोपादानात्सायमेतद्रूपकम् । ‘घनः सान्द्रे दृढे दीर्घे विस्तारे लोहमुद्गरे' इति विश्वः । 'गुण्ठितरूषिते' इत्यमरः । एतब्या- ख्यानसमये क्षीरस्वामिनाप्युक्तम्--- "रूषिते लौकिकव्यावृत्त्येर्थः । यत्रान्तार्गरिरेणु- रूषित:" || 'नक्षत्रे चापि मध्ये च तारकं तारकापि च' इति विश्वः ॥ ३ ॥ किं च । जितबिसेति । मृदुभुजयुगले तस्याः कोमले बाहुयुगे मरकतवलयमिन्द्रनीलमणिकङ्कणं तमेव मधुकरनिचयं भ्रमरसमूहं विकिरति अर्पयति । कीदृशे भुजयुगले । जितं निज- Dilized by ● Google