पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः ७ गुर्जरीरागैकतालीतालेन गीयते । प्र० १६ समुदितमदने रमणीवदने चुम्बनवलिताघरे । मृगमदतिलकं लिखति सपुलकं मृगमिव रजनीकरे ॥ १ ॥ रमते यमुना पुलिनवने विजयी सुरारिरघुना ॥ ध्रुवम् ॥ घनचयरुचिरे रचयति चिकुरे तरलिततरुणानने । कुरबकक्कुसुमं चपलासुषमं रतिपतिमृगकानने ॥ रमते० ॥ २ ॥ इति भावः ॥ द्रुतविलम्बितं वृत्तम् ॥ १ ॥ इदानीं राधा विव्हलिते मनसि तत्ख- रूपमेव निरूपयति ॥ अत्र पूर्व ध्रुवपदम् ॥ रमत इति । अधुना मुरारिर्यमुनापु. लिनवने रमते । अत्र मुरारिपदं कामुकस्य कार्कश्ये रत्यभावं द्योतयति । किंभूतः । विजयी मां पराभूय जयवान् । इति ध्रुवः । अथ पद्यानि । तमेव रमणप्रकारमाह--- समुदितेति । रमणीवदने मृगमदतिलकं कस्तूरीतिलकं लिखति । रमतेऽस्यामिति रमणी । लिखिरत्र लेखनसामान्याद्विन्यासे वर्त्तते । किंभूते वदने । अत एव सम्य मुदितः कामो यतः । पुनः किंभूते सतिलकं मुखमुद्वीक्ष्य दीप्तस्मरत्वात्सपुलकं यथा भवति तथा चुम्बनाद्वलितः संभक्तोऽधरो यत्र । कस्मिन्क इव । रजनीकरे मृग इव । पूर्णचन्द्रनिभे मुखे कस्तूरीतिलकेन राधानिःश्वासैककाश्मल्यं द्योत्यते । अत्र रज- नीकरग्रहणेन तयोः क्षणरागित्वं द्योयते ॥ १ ॥ अपि च । घनचयेति । स तस्या इति प्रकरणलभ्यौ । चिकुरे कुन्तले । जातावेकवचनम् । कुरबककुसुमं शोणसैरेयक- पुष्पम् । शोणम्लानपुष्पं वा रचयति । किंभूते । रतिपतिः मृग इव तस्य कानने । किंभूते चिकुरे । घनचयरुचिरे मेघपटलमनोहरे । पुनः किंभूते । तरलिततरुणानने । तरलितानि तरुणानामाननाति येन । काननपक्षे तरलितानि तरुणानां कुब्जककुसु- पूर्वे गीतेन कस्याश्चिद्विपरीतरतमुक्तमधुना कस्याञ्चित्स्वाधीनभर्तृकाया नायककर्तृकां क्रीडामाह-समुदितेति । गुर्जरीरागेऽस्यैकतारु गीतार्थस्तु - विजयी जयशीको मुरारिर्यमुनापुलिने वने यमुनायाः सैकते यद्वनं तत्र रमते क्रीडति । निःशङ्ककेलिप्रति- पादनाय विजयीत्युक्तम् । क्रीडामेवाह– समुदितेति । रमणीवदने कामिनीमुखे सपुरूकं रोमाचं यथा स्यादेव मृगमदतिलकं कस्तूरीतिलकं लिखति । कीदृशे । चुम्बनाय वलितः संमुखीकृत्य संकोचितोऽधरो यत्र तादृशे | कुत्र कमिव । रजनीकरे | चन्द्रे भृंगमिव । कीदृशे चन्द्रे । समुदितः सम्यगुदितो मदनो यस्मातादृशे । पूर्ण- चन्द्रस्य कामोद्दीपकत्वादिति भावः । पुनः कीदृशे चन्द्रे । चुम्बनाय वलितः संमुखी- कृतोऽधरो यस्मात्तादृशे । चन्द्रदर्शनाखूनोश्चुम्बनादौ प्रवृत्तिः 1 अत्र मुखस्याकादकारि- स्वादिना चन्द्रसाम्यं कस्तूरीतिलकस्य च मृगसाम्यं बोध्यम् ॥ १ ॥ केल्यन्तरमाइ- घनचयेति । चिकुरे तस्याः केशपाशे कुरबककुसुमं शोणाम्लानपुष्पं, अरुणझिण्टीपुष्पं वा रचयति । यथाविन्यासमर्पयतीत्यर्थः । कीदृशे चिकुरे । घनचयवन्मेधसमूह- बद्रुचिरे मनोइरे । पुनः कीदृशे । रतिपतिः कामः स एव मृगस्तस्य कानने बने । पुनः कीदृशे । तरलितानि बिलोकनेन चञ्चलीकृतानि तरुणानां यूनामाननानि मुखानि www . Google १०४ गीतगोविन्द्रकाव्यम् D gilized by