पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः [७] रसिकप्रिया-रसमजर्याख्यटीकाद्वयोपेतम् १०३ श्रीजयदेवमणितहरिरमितम् । कलिकलुषं जनयतु परिशमितम् ॥ कापि० ॥ ८ ॥ विहरपाण्डुमुरारमुखाम्बुजयुतिय तिरयन्नपि वेदनाम् । विधुरतीव तनोति मनोभुवः सुहृदये हृदये मदनव्यथाम् ।।५।। रतिरणः तत्र धीरा स्थिरा ॥ ७ ॥ श्रीति । इदं श्रीजयदेवभणितं विपरीतरताभि- (योग) क्रीडितं कलिकलुषं परिशमितं जनयत्विति शान्ति नयतु ॥ ८ ॥ तथाच सङ्गीतराजे 'श्रीरागो यत्र रामः स्यात्तालस्तु द्रुतमण्ठकः । वर्णनं वासुदेवस्य रति- स्वद्यत्यये स्त्रियाः । पदेभ्य: पाटसन्तानं खरास्तेनास्तथैव च । प्रयोगश्च भवेद्यन्त्र स अबन्धवरः स्मृतः ॥ हरिरमितचम्पकवर्णेभ्यः शेखराभिधः ॥ इति हरिरमितचम्पक- शेखरनामा चतुद्देशः प्रबन्धः ॥ इदानीं विरहातुरा राधा चन्द्रमुद्दिश्याह – विर हेति । अये कोमला मन्त्रणे हे सखि, अयं विधुः हृदये अर्थात् मम अतिमदनव्यथां तनोति । किंभूतः । मनोभुवः मदनस्य सुहृन्मित्रम् | मुरारेर्विरहावस्था स्मरणेनाह । किंभूतः । विरहेण पाण्डुः यन्मुरारिमुखाम्बुजं तस्य युतिरिव युतिर्यस्य । अत एव वेदनां तिरयन्नपि आच्छादयन्नपि । एतदुक्तं भवति । पूर्व मदीयविरहपाण्डुमुरारि - मुखकान्तिमत्त्वेन मम वेदना नाशयन्नपि कामसुहृत्त्वेन वेदनां करोत्येव । तदप्रात्यापि यदपेक्षया तस्य स्थितत्वाहुःखं नाभूत्सांप्रतमन्यासतं तं ज्ञात्वा मया स्थातुं न शक्यत हंसलीलकः' इति । 'लवलेशककणाणवः' इत्यमरः ॥ ७ ॥ श्रीजयदेवेति | श्रीजयदेवेन भणितं यद्धरेः कृष्णस्य रतिरमितं क्रीडितं कले: कलियुगस्य कलुषं पापमर्थाच्छ्रोतॄणां पाठकानां च परिशमितं जनयतु नष्टं करोतु ॥ ८ । संप्रति चन्द्रोऽप्ययमधिकतरं व्यथयतीत्याह– विरहेति । अये इति विषादे । अयं दृश्यमानश्चन्द्रो मम हृदये मदनव्यथां कामपीडां तावदधिकं यथा स्यादेवं तनोति विस्तारयति । कीदृशः । विरहेण मद्विश्लेषेण पाण्डु धूसरं यन्मुरारे: कृष्णस्य मुखाम्बुजमाननपद्मं तद्युतिर्यस्य सः । तथा च । तादृश कृष्णमुखाम्बुजचन्द्रदर्शने कृष्णस्य मुखाम्बुजस्य स्मरणादति- व्यथा जायते इति भावः । किं कुर्वन् । वेदनामपि तिरयंस्तिरोहितां कुर्बन्। तथा च । चन्द्रदर्शनेन तथा विवेकोन्मूलनं भवति कृष्णमुपायेन कृतापराधमपि तमेव मनः स्मरतीति भावः । व्यथाजनकत्वे हेतुमाह - मनोभुव इति । मनोभुवः कामस्य सुहृन्मित्रम् । तथा च निकटस्थितस्यापि कृष्णस्यानुसरणं मया न कृतमिति मदनाशा- लनात्कामो मे कैरी जातः । सख्युस्तस्य साहाय्यं चिकीर्षता चन्द्रेणापि व्यथा जन्यत इति भावः । चन्द्रस्य कृष्णमनोजन्यत्वेन कामस्य मनसिजश्वेनैव प्रसिद्धेः । सोदरत्वेन कामचन्द्रयोः सौहार्दत्वाश्च मनोभुवपदेन कामस्योपादानम् । तथा च श्रुतिः 'चन्द्रमा मनसो जातश्चक्षोः सूर्योऽजायत । इति । 'वेदना शानदुःखयोः । भये क्रोधे विषादे च संभ्रमे स्मरणेऽपि च ॥ इति विश्व: । 'तिरोऽन्त तिर्यगर्थे' इति च ॥५॥ D gilicad by Google