पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०२ गीतगोविन्दकाव्यम् [सर्गः ७ विपुलपुलकपृथुवेपथुभङ्गा । श्वसितनिमीलितविकसदनङ्गा || कापि० ॥ ६ ॥ श्रमजलकणभरसुभगशरीरा । परिपतितोरसि रतिरणधीरा ॥ कापि ० ॥ ७ ॥ नुकरणानि यत्र तद्यथा स्यात्तथा रतिरसेन रतिरागेण रसिता शब्दिता । अथवा बहु- विधं कूजितमव्यत: शद्बो यत्र तेन रतिरसेन शब्दिता ॥ ५ ॥ अपि च । विपुलेति । विपुला बहवः पुलका रोमाचा यत्र असौ विपुलपुलकः पृथ् रोमाञ्चमङ्ग- स्वरङ्गो यस्या भङ्ग इव भङ्गः । श्वसितनिमीलिताभ्यां विकसन्प्रकटीभवन्ननङ्गः एतल्लक्षणः कामो यस्याः ॥ ६ ॥ अपि च । श्रमजलेति । किंभूता ॥ स्वेद- बिन्द्वशिरीरा । अपि च किंभूता । उरसि पतिता । अर्थाद्धरे: । रती रण इव Dilized by 1 दर्शनेन लब्जा हास्यं च तस्या अभूदिति भावः । लज्जितहसितेत्यत्र प्रथमव्याख्याने नपुंसके भावे कः । द्वितीयव्याख्याने लज्जाधातोस्यवाचकस्य भातोश्चाकर्मकत्वात् त्यर्धाकर्मक-- इत्यादिना तः । पुनः कीदृशी । बहुविधं पिकशिखिकलहंसादीनामिव नानाप्रकारं कूजितं शब्दितं यत्र । एतादृशो रतिरस: सुरतरसस्तेन रसिता हृष्टा । यद्वा । बड्डुविधं नानाप्रकारं पारावतादीनां यत्कूजितं तद्वद्रतिरसे रसितं शब्दितं यस्याः सा । 'रक्षितं शब्दिते हृष्टे' इति कोशः ॥ ५ ॥ पुनः कीदृशी । विपुलेति । विपुला : प्रचुरा ये पुलका रोमाधास्तेषां पृथुर्महान्यो वेपथु: कम्पस्तस्य भङ्गस्तरको यस्याः सा । रोमाचकम्पयोरुत्तरोत्पत्त्या तरङ्गसाम्यम् | 'भङ्गस्तरङ्गे रुदै भङ्गो जयविपर्यवे इति विश्वप्रकाशः । पुनः कीदृशी । वसितं सुरतायासजनितो निश्वासो निमीलितं परमानन्दावाप्तिजनितं नेत्रनिमीलनं ताभ्यां विकसन्प्रकटीभवन्ननकः कामो यस्याः सा । श्वसितेत्यनेनानन्दावाप्तिसान्निध्यं कथितम् । तदुक्तं रतिरहस्ये- 'मुहुः स्वजनाश्लेषः सीत्काराश्चितलज्जितम् । ढुङ्कारोच्छुसितं नार्य्या बीर्यसान्निध्यसूचकम् ॥ इति । निमी- लितेत्यनेन च्युतिकाल: कथितः । तदुक्तं तत्रैव — 'मूर्च्छना मीलनं चाक्ष्णो श्युतिकालस्य लक्षणम् ।" इति ॥ ६ ॥ पुनः कीदृशी श्रमजलेति । श्रमजलकणेन सुरतायासज- नितप्रस्वेदबिन्दुसमूहेन सुभगं मनोहरं शरीरं यस्याः सा । त्रुटितहारेऽपि ि स्वेदविन्दुर्मुक्ताहारशोभाजननास्सुभगशरीरेति भावः । पुनः कीदृशी । उरसि कृष्णस्यो- रसि परिपतिता । पुनः कीदृशी । रतिरणे सुरतसंग्रामे धीरा पण्डिता । अनेन सुरतान्तकाल उक्त: । तदुक्तं रतिरहस्ये — 'अङ्गे स्वेदः ऋथत्वं च केशवस्त्रादिसंसृतिः (१) । जाते च्युतिसुखे नाय विरामेच्छा च जायते ॥ बन्धश्चार्य हंसलीलकाख्यः । तदुक्तं रतिरहस्ये --- 'नारी पादद्वयं दत्त्वा कान्तस्योरुयुगोपरि । कटिमान्दोलयेदाशु बन्योऽयं 4. Google 1.