पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् १०१ हरिपरिरम्भणंवलितविकारा । कुचकलशोपरितरलितहारा ॥ कापि० ॥ २ ॥ विचलदलकललिताननचन्द्रा । तद्धरपानरभसकृततन्द्रा ॥ कापि ० ॥ ३ ॥ चञ्चलकुण्डलदलितकपोला । मुखरितरसनजघनगतिलोला || कापि ० ॥ ४ ॥ दयितविलोकितलज्जितइसिता । बहुविधक्कूजितरतिरसरसिता ॥ कापि० ॥ ५ ॥ रीषद्विछलिताः केशा यस्याः सा । अनेनोचेनास्याः पुरुषायितत्वं व्यज्यते ॥ १॥ अपिच हरीति । पुनः किंभूता । हरिपरिरम्भणेन वलितः संभक्तो विकारः कामोपलक्षितो मानसो भावो यस्याः | कुचकलशयोरुपरि तरलबबलो हारो यस्याः । अत्रापि हारतरलत्वं पुरुषायित्तमभिव्यक्ति ॥ २ ॥ अपि च । विचलदिति । पुनः किं भूता । विचलदलकैर्ललितो मनोहरो मुखचन्द्रो यस्याः सा तथा । पुनः किंभूता तदध- रपानरभसेन हर्षेण कृता तन्द्रा सुखजनिताली कनिद्रा यया ॥३॥ अपि च । चञ्चलेति । किंभूता। चञ्चलकुण्डलाभ्यां ललितौ (दलितौ) कपोलौ यस्याः । पुनः किंभूता। मुखरितर- सना या जघनगतिः जघनस्य गतागतं तया लोला ॥ ४ ॥ अपि च । दयितेति । किंभूता । लजिता चासौ इसिता च लजितहसिता । दयितविलोकितेन लजित- इसिता । अपि च किंभूता बहुविधानि कूजितानि पारावतादीनामव्य कशब्दा- चुम्बनं कार्य्यमित्युक्तं प्राकू । 'अस्त्रियां समरानीकरणाः' इत्यमरः । 'वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके ।” इति विश्वः ॥ १ ॥ पुनः कीदृशी । हरीति । हरेः परिरम्भणेनालिङ्गनेन चलितो जातो विकारो रोमाबादिर्यस्याः सा । पुनः कीदृशी | कलशाविव कुचौ तत्र तरलितचन्चलो हारो यस्याः सा ॥ २ ॥ पुनः कीदृशी । विचरूदिति | विचलद्भिश्चम लैरधिकै चूर्णकुन्तलैर्ललितो मनोहर आननचन्द्रो यस्याः सा | लालित्यं चालकानां कलङ्कसादृश्यान्मुखे चलत्कलङ्कवत्त्वं चन्द्रमसः प्रतीयते । पुनः कीदृशी । तस्य कृष्णस्याधरपानरमसः । तेन कृता चक्षुनिमीलनेनाविष्कृत- तन्द्रा रतिसुखानुभवजनिता निद्रा यया सा ॥ ३ ॥ पुनः कीदृशी । चञ्चलेति । चचलाभ्यां कुण्डलाभ्यां दलितौ हृदितौ कपोलौ यस्याः सा । कुण्डलयोश्चाचल्यं पुरुषायितासकलनायिकातनुचावल्यं भवत्येव । पुनः कीदृशी । मुखरितेति । मुखरिता शब्दायमाना रसना क्षुद्रघण्टिका यस्य । तादृशस्य जघनस्य गत्या गतेन लोला चला ॥ ४ ॥ पुनः कीदृशी | दुयिवेति । दयितस्य कृष्णस्य विलोकितेन वीक्षणेन लज्जितहसिते लजाहास्ये यस्याः सा । यद्वा दयितविलोकिते च लजिता लज्जावती हास्ययुक्ता चेत्यर्थः । पुरुषायमाणायास्तस्याधः स्थितस्यामनायमानस्य कृष्णस्य १ ' णचलित० ' इति पाठः. Dgilicad by Google +