पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० शिरस्याहि मे पदमित्यर्थे च करं हृदि । समायान्तं न तद्दातुं शरमकेश्वरतां स्मरन् । अन्यदन्वेषमाणोऽपि न लेभे तादृशं पदम् । संस्थाप्य पुस्तकं स्नायुं जगामान्यद्विचिन्तयम् ॥ तावजयदेवरूपेण कृष्णस्तत्र समागतः । पद्मावतीमुदायाथ पुस्तकं देहि मे प्रिये ॥ पद्मावती समानीय ददौ तत्पुस्तकं द्रुतम् । गृहीत्वा पुस्तकं तत्र जयदेवेन यत्कृतम् ॥ . मनसा तहिलेखासौ जयदेवखरूपधृक् । पुनरुत्थाय स ज्ञातुं जगामातित्वरान्वितः ॥ कश्चित्कालमतीत्याथ जयदेवः समागतः । देवानभ्यर्च्य भुक्त्वा च गृहीत्वा पुस्तकं पुनः ॥ मनसा कल्पितं पद्यं लिखितुं तु समुद्यतः । ददर्श तत्र तत्पद्यं नालिखद्यदयं पुरा ॥ अन्येन लिखितं ज्ञात्वा प्राह पद्मावतीं प्रियाम् । अये केनेदमालेखि तं जानासि शुचिस्मिते ॥ नाहमेतत्पदं पूर्वमलिखं नाक्षरं मम । इति श्रुत्वा वचस्तस्य प्राइ पद्मावती प्रिया ॥ नाथ कोऽयं भ्रमस्तेऽय जयदेवं वचोऽब्रवीत् । खातुं गतस्तु तत्काले पुनरागत्य सत्वरम् ॥ गृहीत्वा पुस्तकं मत्तो लिखित्या त्वं पुनर्गतः । सातुमेवं तु जानामि कोऽन्यस्त्वत्तोऽत्र लेखकः ॥ इति श्रुत्वा प्रियावाक्यं जयदेवोऽतिविस्मितः । अहर्निशं तमेवार्थ चिन्तयन्नालभत्सुखम् ॥ तस्मिन्दिने रात्रिशेषे खप्ने श्रीपुरुषोत्तमः । उवाच जयदेवं तु सुखप्ने मुमुदे भृशम् ॥ खपलीं सुभगां मेने पुरुषोत्तमदर्शनात् । तदारभ्यातिभक्त्या वै पत्न्या सह हरिं भजन् ॥ गायन्यै गीतगोविन्दं तोषयामास केशवम् । निर्माय गीतगोविन्दपुस्तकं पुरुषोत्तमे || निवेद्य कृतकृत्योऽभूजयदेवो महामनाः ॥ इति श्रीभगवद्भभक्तिमाहात्म्ये जयदेवचरितं नामैकोनचत्वारिंशः सर्गः ॥ पुनर्वक्ष्यामि तस्यैव चरितं परमात जयदेवस्य विस्य गीतगोविन्दसंभवम् ॥ एकदा गीतगोविन्दं श्रुत्वा राजातिहर्षितः । निजाप्रे स्थापयित्वा तत्काव्यं तादृशमेव च ॥ Dglized by Google