पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! जगन्नाथाज्ञयेत्युक्त्वा यन्मां वचयसि स्फुटम् । कुत एवं मतिभ्रंशो गच्छ गच्छ यथासुखम् ॥ आनाय्य पूजकं तत्तु देवशर्मादियनतः । निवेदयामास मुहुस्तां च न स्वीचकार सः ॥ ततः खतनयां तत्र स्थापयित्वा द्विजोऽब्रवीत् । अयं तु ते पतिः पुत्रि त्वया पूज्यश्च सर्वदा || पतिसेवापरा नारी सुखमक्षय्यमनुते । इत्युक्त्वा तां देवशर्मा ययौ पत्न्या सहाश्रमम् || सापि कन्या स्थिता तत्र जयदेवस्य संनिधौ । जयदेवस्तु तां ग्राह गतौ तौ पितरौ तव ॥ त्वां विहाय त्वमप्येका कथं स्थास्यसि कानने । अथ पद्मावती प्राह भगवन्कि ब्रवीषि भो ॥ स्वमातृपितृदेयां वै स मां तुभ्यं ददौ पिता । अतस्तवाहं त्वं चेन्मामतिभकामनागसम् ॥ त्यक्षसीत्यत्र किं कुर्या नाहमेका त्वयि स्थिते । पद्मावतीवचः श्रुत्वा जयदेवोऽप्यचिन्तयत् ॥ अनया सत्यमुक्तं हि त्यागे दोषो महान्मम । तस्मादस्याः पितुर्गेहूं गत्वाहमनया सह || इमां प्रतिग्रहीष्यामि विधिना नात्र संशयः । इति निश्चित्य मनसा जयदेव उवाच ताम् ॥ एत्यागच्छ मया साईं गच्छामि त्वत्पितुर्ग्रहम् । विधिना तत्र ते पाणि प्रहीष्यामि न संशयः ॥ इत्येवं वचनं श्रुत्वा ग्राह पद्मावती पुनः । त्वदाशाकरणं धर्मं इत्येवं मां पितात्रवीत् ॥ अतो महाप्रसादोऽयमित्युक्त्वाप्रे स्थिताभवत् । जयदेवस्तया साह्रै देवशर्मगृहं गतः ॥ तमुक्त्वा गद्गदं सर्व प्रतिगृह्य यथाविधि । पद्मावत्या तया सार्धमाजगाम निजं गृहम् ॥ उभौ तौ दम्पती तत्र एकप्राणौ बभूवतुः । नृत्यन्तौ चापि गायन्तौ श्रीकृष्णाचनतत्परौ ॥ एकदा जयदेवस्तु मनस्येवमचिन्तयत् । स्वयंकृतेन गीतेन तोषयिष्याम्यहं हरिम् ।। इति निश्चित्य निर्माय गीतगोविन्दनामकम् । गायंस्तु देवदेवाप्रे पत्न्या सह ननते है | एवं नित्यव्रतं तस्य तत्रैकस्मिन्दिने पुनः । भबन्ध रासचरितं कृष्णोकौ राधिकां प्रति ॥ Dgilized by Google