पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन तत्रैव विप्रोऽन्यो देशयतेति॑ि विश्रुतः । अनपत्यो बभूवासी जगन्नाथमुपागतः ॥ नमस्कृत्य हरि मूभी खीचकार कृताञ्जलि: । यदि मे संततिर्नाथ त्वत्प्रसादाद्भविष्यति ॥ अपत्यं प्रथमं तुभ्यमर्पयिष्याम्यसंशयम् । प्रतिश्रुत्य मनस्येवं स यातो निजमन्दिरम् ॥ तत्र कालेन कियता कन्यैका प्रथमाजनि । ततः पुत्रानलभत साधुवृतान्मनोहरान् ॥ ततः स मनसा स्मृत्वा सपत्नीको द्विजोत्तमः । कन्यां गृहीत्वा हर्षेण जगन्नाथमुपागतः ॥ नमस्कृत्य जगन्नाथं देवशर्माब्रवीद्वचः । देव देव जगनाथ प्रसादः फलितो मम ॥ प्रथमा तनया जाता पुत्रांस्तु तदनन्तरम् । अतः प्रतिश्रुतां कन्यां ददामि प्रतिगृह्यताम् ॥ इत्युक्त्वा तां करेणासौ गृहीत्वा तां प्रदर्श्य च । पूजकेभ्योऽथ वृत्तान्तमादितो व्याजहार सः ॥ ततो बहिः समागत्य सोऽवतस्थे कचिद्विजः । रात्रौ तस्य च विप्रस्य पूजकस्य जगत्प्रभुः ॥ खप्ने तं कथयामास जगन्नाथो द्रुतं वचः । देवशर्मन्प्रसन्नोऽस्मि स्वीकृता ते सुता मया ॥ परंतु जयदेवाय दीयतां मत्प्रियो यसौ । अहमेव स विज्ञेयो मात्र कार्या विचारणा ॥ पूजकोऽप्येवमेवाथ खमं दृष्ट्वा प्रबोधितः । देवशर्माणमागत्य स्वप्नं प्रोवाच हर्षितः ॥ श्रुत्वैवं देवशर्माणि खप्नं सत्यममन्यत । पूजकं तं नमस्कृत्य गृहीत्वा तनयां निजाम् ॥ जगाम जयदेवस्य संनिधौ हृष्टमानसः । तं तु पर्णकुटीमध्ये प्रामाद्वहिरवैक्षत | दरिद्रं निरपेक्षं च शास्त्रं पश्यन्तमादरात् । मनसा तु जगन्नाथं घ्यायन्तं मुदिताननम् || प्रणम्य जयदेवं तं देवशर्माब्रवीद्वचः । इयं मे तनया ब्रह्मजगन्नाथाज्ञया मया ॥ नाम्ना पद्मावती तुभ्यं दीयतेऽनुगृहाण ताम् इत्युको जयदेवस्तमुवाच मधुरं वचः ॥ अहं न कन्यादानस्य पात्रं दीनोऽनिकेतनः । ममापि न जिघृक्षास्ति किमिदं भाषसे वृथा ॥ Google Dgilized by ✔ । 1