पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावनाः १. १००० श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थसंहतिबहुलं सरसराग- निबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डारसदृशमिदं गीतगोविन्दकाव्यं कैश्चिद्धयो मुद्र- यित्वा प्रकाशितमपि सहृदयाल्हादिन्या साहित्य संगीतविवेकप्रचुरया टीकया समेतं केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागतालादिलक्षणानुगतियो- तकेन टीकाइयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते । अस्य गीतगोबिन्दकाव्यस्य प्रणेतुर्जयदेवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां बहूनां कवीनामिव सम्यह्न ज्ञायते । यत्किञ्चिन्मधुकरवृत्त्या संकलितं सदन विद्वत्कौ- काय संगृह्यते । गीतगोविन्दकाव्यादेव यदस्य कवेः पितॄनामादिकं लभ्यते तदेवम्-जयदेवस्य पितुर्नाम श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा पराशराभिधः कोऽपि रसिकोऽस्य सुहृदासीत् | जयदेवकवेर्भार्याया नाम पद्मावतीति । उमापतिधरः शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयवेवसमकालीना आसन् । जयदेवस्य कुलवृत्तिप्रामः किन्दुबिल्वाख्य आसीदिति । जयदेवकविः परमः कृष्णभक आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिनपि भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमचन्द्रदत्तकृतभकमलारूय- प्रन्ये ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्वैर्वणितमस्ति । तदत्र बाल- बोधाय यथामूलमुपन्यस्यते । तद्यथा- “पुनरभे प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् । यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥ जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे । बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥ तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः । विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥ १ गीतगोविन्दस्थे ' श्रीभोजदेव' इत्यादिपये (१० १७१) द्रष्टव्यम् । २ गीतगोविन्दस्थैकोनविंशप्रबन्धस्यान्तिमपदस ' जयति पद्मावतीरमणज्यदेव ' इत्यादि साठान्तरदर्शनात् (पृ० १३३ ) | भक्तमालाग्रन्थेऽपि तथैव कथनाच्च । ३ गीतगोविन्दस्थे ' वाचः पळवयत्युमापतिधरः' इत्यादिपये ( पृ०९) द्रष्टव्यम् । ४ गीतगोविन्दस्थसप्तमप्रबन्धयान्तिमपदे (२०५८) ' किन्दुबिल्व समुद्रसंभवरोहि- गीरमणेन ' इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वपदस्य जयदेवकुलवृत्तिग्रामत्वेन क्याख्यातत्वाच्च । भक्तमालाग्रन्थे तु 'बिन्दुबिल्व' इति पाठो दृश्यते । 4 ५ अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर- मुद्रालये मुद्रयित्वा प्रकाशितः । तत उद्धृतमेवदध्यायत्रयम् । 275807 Google