सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रस्तावनाः

 श्रीमहाकविजयदेवविरचितं मृदुलपदसरणिललितं रुचिरार्थसंहृतिबहुलं सरसराग- निबद्धसुप्रबन्धप्रधानं शृङ्गाररसभाण्डारसदृशमिदं गीतगोविन्दकाव्यं कैश्विद्भूयो मुद्र- यित्वा प्रकाशितमपि सहृदयाल्हादिन्या साहित्य संगीतविवेकप्रचुरया टीकया समेत केनापि प्रकाशितं नैव दृश्यते । अतस्तद्रसध्वन्यलंकाररागतालादिलक्षणानुगतियो - नकेन टीकाद्वयेनालंकृत्य संप्रति रसिकजनविनोदाय प्रकाश्यते ।
 अस्य गीतगोविन्दकाव्यस्य प्रणेतुर्जयदेवकवेर्देशकालादिकं जीवितवृत्तं चान्येषां बहूनां कवीनामिव सम्यङ्न ज्ञायते । यत्किञ्चिन्मधुकरवृत्त्या संकलितं तदत्र विद्वत्को- काय संगृह्यते ।
 गीतगोविन्दकाव्यादेव यदस्य कवेः पितॄनामादिकं लभ्यते तदेवम्---जयदेवस्य पितुर्नाम[] श्रीभोजदेव इति । मातुर्नाम राधादेवी रामादेवीति वा । पराशराभिधः कोऽपि रसिकोऽस्य सुहृदासीत् । जयदेवैकवेर्भार्याया[] नाम पद्मावतीति । उमापतिधरः[] शरणः, गोवर्धनाचार्यः, धोईकविराज इत्येते कवयो जयदेवसमकालीना आसन् । जयदेवस्य कुलवृत्तिप्रामः किन्दुबिल्वाख्य[] आसीदिति ।
 जयदेवकविः परमः कृष्णभक्त आसीत् । अतो लोकेऽयं महासाधुत्वेन सर्वस्मिन्नपि भरतखण्डे विख्यातो बभूव । एतद्विषयकमस्य चरितं श्रीमचन्द्रदत्तकृतभकर्मालाख्यग्रन्ये[] ३९ तमसर्गमारभ्य ४१ तमसर्गपर्यन्तं त्रिभिः सर्वैर्वर्णितमस्ति । तदत्र बाल- बोधाय यथामूलमुपन्यस्यते । तद्यथा-

"पुनरग्रे प्रवक्ष्यामि भक्तिमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा जायते भक्तिर्वासुदेवे महात्मनि ॥
जगन्नाथपुरीप्रान्ते देशे चैवोत्कलाभिधे ।
बिन्दुबिल्व इति ख्यातो ग्रामो ब्राह्मणसंकुलः ॥
तत्रोत्कले द्विजो जातो जयदेव इति श्रुतः ।
विद्याभ्यासरतः शान्तः पुरुषोत्तमपूजकः ॥


  1. गीतगोविन्दस्थे 'श्रीभोजदेव ' इत्यादिपथे (१० १७१) द्रष्टव्यम् ।
  2. गीतगोविन्दस्यैकोनविंशप्रबन्धस्यान्तिमपदस्य ' जयति पश्चावतीरमणजयदेव ' इत्यादि साठान्तरदर्शनात् ( पृ० १३३ ) । भक्तमालाग्रन्थेऽपि तथैव कथनाच्च ।
  3. गीतगोविन्दस्थे ' वाचः पल्लवयत्युमापतिधरः' इत्यादिपद्ये ( पृ० ९) द्रष्टव्यम् ।
  4. गीतगोविन्दस्थ सप्तम प्रबन्धस्यान्तिमपदे ( १० ५८ ) ' किन्दुबिल्वसमुद्रसंभव रोहि- गीरमणेन ' इति दर्शनात् । टीकाद्वयेऽपि किन्दुबिल्वपदस्य जयदेव कुलवृत्तिग्रामत्वेन याख्यातत्वाच्च । भक्तमालाग्रन्थे तु 'बिन्दुमिल्व ' इति पाठो दृश्यते ।
  5. अयं भक्तमालाग्रन्थः श्रीमद्भिः खेमराजकृष्णदासमहाशयैः स्वकीये श्रीवेङ्कटेश्वर- मुद्रालये मुद्रयित्वा प्रकाशित: । तत उद्धृतमेवदध्यायत्रयम् ।