सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९८
[सर्गः ७
गीतगोविन्दकाव्यम्



अहह कलयामि वलयादिमणिभूषणम् ।
हरिविरहदहनवहनेन बहुदूषणम् || यामि हे० ॥ ५ ॥
कुसुमसुकुमारतनुमतनुशरलीलया ।
स्त्रगपि हृदि हन्ति मामतिविषमशीलया ॥ यामि हे० ॥६॥
अहमिह निवसामि न गणितवनवेतसा ।
स्मरति मधुसूदनो मामपि न चेतसा ॥ यामि हे० ||७||


यतस्तत्प्राप्त्यर्थे मया प्रयत्नः कृतः, अन्यया च हरिरतसुखमनुभूयते ॥ ४ ॥ अपि च अहहेति । अहह इति खेदे । हरिविरहदहनवहनेन वलयादिकं मणिभूषणं बहुदूषणं कलयामि । यतः ‘स्त्रीणां प्रियालोकफलो हि वेषः' इति ॥५॥ अपि च । कुसुमेति । हे कान्त, हृदिवर्तमाना स्रगपि मामतनुशरलीलया कामबाणस्वाभाव्येन हन्ति । मया पुष्पस्रगिति धार्यते तस्याश्च स्मरशरमयत्वात् हननखभावः । अत एवातिविषमशरलीलया । अति विषमीयते यस्मिन्नित्यतिविषमं तच्छीलं यस्याः सा तथा । अथवा मां हृदि मनसि हन्ति मनो विध्यतीत्यर्थः । अत एव विषमशीलया अन्यशरेभ्यो विषमस्वभावया । तथा च 'अपूर्वेयं धनुर्विद्या मन्मथस्य महात्मनः । शरीरमक्षतं कृत्वा भिनत्यन्तर्गतं मनः'॥ किंभूतां कुसुमादपि सुकुमारतनुं यो हि यस्माद्धीनबल: स तं सुखेन हन्ति ॥ ६ ॥ अपि च । अहमिति । हे कान्त, अहमिह कुञ्जे नमणितवनवेतसा निवसामि न गणितानि वनानि चेतसाश्च यया सा । वनवेतसग्रहणमन्येषामपि वनस्थविषमाणामुपलक्षणार्थम् । तेन दुर्ल्लङ्घ्यमप्युल्लङ्घ्य न चिन्ताहमागता परं मधुसूदनस्तु मां चेतसापि न स्मरति । अतीव युद्धाभिनिवेशः संभोगपराच्छुखों


वृष:' इत्यमरः ॥ ४ ॥ अहहेति । अद्भुते । बलयादिमणिभूषणं कटकादिमणिखचि तमलङ्कारं हरिविरहदहनवहनेन कृष्णविरहाग्निधारणेन बहुदूषणमनेकदोषं पश्यामि । स्त्रीणां प्रियाण्याभरणानि । तान्यप्यधुना भारभूतानीत्यद्भुतमिति भावः ॥ ५ ॥ कुसुमेति । स्रगधि पुष्पमालापि । अतनुशरलीलया अतनुः कामस्तस्य ये शरास्तेषां लीलया मां हृदि हन्ति ताडयति । कामबाणा अपि पुष्पाण्येव । स्त्रगपि पुष्पमयीति तल्लीलया हन्तीति भावः । कीदृश्यातनुशरलीलया । अतिविषमशीलया अतिशयेन विषमं शीलं स्वभावो यस्यास्तादृश्या । अन्यबाणा हि क्षिप्ताः सन्तः क्षतमुत्पाद्य घ्नन्ति । कामबाणास्तु हृदि संगताः क्षतमकृत्वैवान्तरे च घ्नन्तीति विषमशीलतेति भावः । कीदृशीं माम् । कुसुमसुकुमारतनुं पुष्पकोमलाङ्गीम् || ६ || अहमिति । अहमिह निकुञ्जे वसामि । कीदृशी । न गणिता न संभाविता वनवेतसा विपिनस्य वेत्रलता यया सा । मधुसूदनः कृष्णो मां चेतसा न स्मरति । अपि चेतोमात्रसाध्यां स्वयं स्मरणमपि न करोति अन्यस्य का वार्तेति चेतसेत्यनेन ध्वनितम् । अन्यथा स्मरणस्य चेतोऽजन्यत्वेन चेतसेत्यस्य वैय्यर्थ्यापत्तेः । न गणितेत्यत्र नशब्देन निषेधवाचकेन समासः । न तु नञ्-शब्देन । नञा सह समासेऽगणितेति स्यात् । यद्वा नञ् शिरश्चालने । तथा च गणिताः प्रतिलतं कृष्णमन्वेषयन्त्या परिसंख्याता वनवेतसा यया सा । यद्वा । अहमिह वने किं