पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसिकप्रिया मम मरणमेव वरमतिवितथकेतना । किमिति' विषहामि विरहानलमचेतना ॥ यामि हे० ॥ ३ ॥ मामहह विधुरयति मधुरमधुयामिनी । कापि हरिमनुभवति कृतकृतकामिनी ॥ यामि ३० ॥४॥ सर्गः ७] —रसमञ्जर्याख्यटीकाद्वयोपेतम् मसमशरकीलितं वर्तते । अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं प. रामृश्यते । यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदय- मसमशरपीडितं वर्तते । अत्र यच्छब्दस्या प्राधान्यात्समासेन निर्गुणत्वान्ध न प्रधा- नत्वेनान्वयः संभवी, विवक्षितार्थासमर्पकत्वात् ॥ २ ॥ अपि च । ममेति-इहाचे- तनाहं चैतन्यरहिंता विव्हलवमाप्ता विरहानलं विषहामि । कथमिति विषहामीति। धा- त्वन्तरमप्यस्तीत्यवधार्यताम् । तदसद्भावे भ्रान्तिर्मास्तु । तत्सन्देहनिराकरणार्थी काम- चेनावीक्ष्यताम् । अत्र विषय किं शक्तावित्यस्य (?) दिवादित्वचुरादित्वभ्वादित्व- परस्मैपदिनो न सन्ति । किं विशिष्टा अहं । इतीव हेतोः वितथकेतना वितथं केतनमावासो यस्याः । प्रियशून्यत्वात् । अथवा वितथं निमन्त्रणं यस्याः सा | सखीमात्रवचनेन हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात् । अथवा वितथं केतनं देहो यस्याः प्रियाप्राप्तेः । एवं सति मम मरणमेव वरं न देहधारणम् ॥ ३ ॥ अपि च । मामिहेति । मधुरमधुयामिनी कोमला सरसा वसन्तरात्रिम विधुरं करोति ॥ अपि च । कापि कृतसुकृतकामिनी कृपया हरिमनुभवति । एतावताऽहं मन्दभाग्या वरमुत्कृष्टम् । तत्र हेतुमाइ–इइ बनेऽचेतना मूर्च्छा | यद्वा । अचेतना मूर्च्छया शाबर- हिता । यद्वा । अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहामि किमिति विषहामि सद्दे । तथा च । इह मम दुःखस्य कोऽपि ज्ञातापि नेत्यरण्यरुदितं किमित्या- चरामीति भावः । कीदृश्यहम् । अतिवित्तथ केतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्यास्तादृशी । यद्वा । अतिवितथं केतनं शरीरं यस्याः सा । तथा च । निरुपमसौ- न्दर्यालयमपीदं शरीरं विना विफलमित्यर्थः । अतिवितथकेतनमिमं स्वपति विहा यान्यपुरुषमभिसतवंतीत्येवंरूपलाञ्छनं यस्यास्तादृशी । तस्मिन्मिलिते लक्षणभपीदं न मे दुःखाय स्यात् । संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः । 'केतनं लान्छने काये गृहे चोपनिमन्त्रणे ।' इति विश्व: । 'षह मर्षणे' इति चुराधन्तर्गणयुजादौ पर स्मैपदी विकल्पेन णिजन्तः पठितः । तस्य णिचोऽभावे विषहामीति प्रयोगः ॥ ३ ॥ मामित्यादि । अइहेति खेदे । इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिमी वि घुरयति विकलयति । कापि कृतं पुण्यं यया एतादृशी कामिनी हरि कृष्णमनुभवति । केलिसमये पश्यति । 'विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत्' इति विश्वः । 'मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे' इति धरणिः । 'स्थाद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं १ " किमिह वि०' इति पाठः, Dgilized by Google