|
मम मरणमेव वरमतिवितथकेतना । |
मसमशरकीलितं वर्तते । अथवा यदिति यद्वचनेनाव्यवहितमेव सखीवचनं परामृश्यते । यद्वचनानुसरणाय गहनं शीलितं तेन तद्वचनहेतुना मम हृदयमसमशरपीडितं वर्तते । अत्र यच्छब्दस्याप्राधान्यात्समासेन निर्गुणत्वाञ्च न प्रधानत्वेनान्वयः संभवी, विवक्षितार्थासमर्प्पकत्वात् ॥ २ ॥ अपि च । ममेति- इहाचेतनाहं चैतन्यरहिता विव्हलत्वमाप्ता विरहानलं विषहामि । कथमिति विषहामीति । धात्वन्तरमप्यस्तीत्यवधार्यताम् । तदसद्भावे भ्रान्तिर्मास्तु । तत्सन्देहनिराकरणार्थे कामधेनावक्ष्यताम् । अत्र विषह्य किं शक्तावित्यस्य (?) दिवादित्वचुरादित्वभ्वादित्वपरस्मैपदिनो न सन्ति । किं विशिष्टा अहं । इतीव हेतोः वितथकेतना वितथं केतनमावासो यस्याः । प्रियशून्यत्वात् । अथवा वितथं निमन्त्रणं यस्याः सा । सखीमात्रवचनेन हि तामनुसरणेन वा ईदृशस्य साहसस्यानुपघातात् । अथवा वितथं केतनं देहो यस्याः प्रियाप्राप्तेः । एवं सति मम मरणमेव वरं न देहधारणम् ॥ ३ ॥ अपि च । मामिहेति । मधुरमधुयामिनी कोमला सरसा वसन्तरात्रिर्मी विधुरं करोति ॥ अपि च । कापि कृतसुकृतकामिनी कृपया हरिमनुभवति । एतावताऽहं मन्दभाग्या
वरमुत्कृष्टम् । तत्र हेतुमाह - इह वनेऽचेतना मूर्च्छा । यद्वा । अचेतना मूर्च्छया ज्ञानरहिता । यद्वा अः कृष्णस्तत्र चेतना बुद्धिर्यस्यास्तादृशी । विरहानलं विरहाग्निं किमिति विषहामि सहे । तथा च । इह मम दुःखस्य कोऽपि ज्ञातापि नेत्यरण्यरुदितं किमित्याचरामीति भावः । कीदृश्यहम् । अतिवितथकेतनातिशयेन वितथं मिथ्याभूतं केतनं गृहं यस्यास्तादृशी । यद्वा । अतिवित्तथं केतनं शरीरं यस्याः सा । तथा च । निरुपमसौन्दर्यालयमपीदं शरीरं तेन विना विफलमित्यर्थः । अतिवितथकेतनमिमं स्वपतिं विहायान्यपुरुषमभिसतवंतीत्येवंरूपलाञ्छनं यस्यास्तादृशी । तस्मिन्मिलिते लक्षणमपीदं न मे दुःखाय स्यात् । संप्रति तु मृषालक्षणमात्रं मे दुःखदमिति भावः । 'केतनं लाञ्छने काये गृहे चोपनिमन्त्रणे ।' इति विश्वः । 'वह मर्षणे' इति चुराद्यन्तर्गणयुजादौ पर स्मैपदी विकल्पेन णिजन्तः पठितः । तस्य णिचोऽभावे विषहामीति प्रयोगः ॥ ३ ॥ मामित्यादि । अहहेति खेदे । इयं मधुरा मनोहरा मधुयामिनी वसन्तरात्रिर्मी विधुरयति विकलयति । कापि कृतं पुण्यं यया एतादृशी कामिनी हरिं कृष्णमनुभवति । केलिसमये पश्यति । 'विधुरं स्यात्प्रतिश्लेषे विधुरो विकलेऽन्यवत्' इति विश्वः । 'मधुरं सरसे ज्ञेयं स्वादुन्यपि मनोहरे' इति धरणिः । 'स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं
९
- ↑ १ किमिह वि०' इति पाठः.