सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९६
[सर्गः ७
गीतगोविन्दकाव्यम्

मालवरागयतितालाभ्यां गीयते । प्र० ॥ १३ ॥

कथितसमयेऽपि[] हरिरहह न ययौ वनं
मम विफलमिदममलरूपमपि यौवनम् ।
यामि हे कमिह शरणं सखीजनवचनवश्चिता ॥ ध्रुवम् ॥ १॥
यदनुगमनाय निशि गहनमपि शीलितं
तेन मम हृदयमिदमसमशरकीलितम् ॥ यामि हे० ॥ २ ॥


विना दुःस्था विप्रलब्धा तु सा मता' | आर्या ॥ २ ॥ पूर्वे ध्रुवः । यामीति — हे सखि, इह अस्मिन्नवसरे कं शरणं यामि । किंभूताहम् । सखीति । सख्य एव जन इतरजनवत् । तद्वचनेन त्वमत्र संकेतस्थाने तिष्ठ तमहमानयामि कुतश्चित्कारणादत्रैव स्थितया विप्रलब्धा । इति ध्रुवः ॥ अथ पदानि । कथितेति-आत्मगतं कथयति । मम इदं यौवनं विफलम् । किंभूतम् । अमलरूपमपि । अथवा यौवनं रूपं च द्वयमपि निष्फलम् । अत्रापिशब्दो भूषणकलादीनामनुक्तानां समुच्चयार्थः । अत्र कारणमाह-अहह इति कष्टे । हरिः कथितसमयेऽपि संकेतितकालेऽपि वनं न ययौ न प्राप्तवान् । यतः ‘प्रियेषु सौभाग्यफला हि योषितः'॥ १ ॥ अपि च ॥ यदिति । यद्यस्माद्धेतोर्निशि रात्रौ अनुगमनाय । अर्थात् हरेरनुगमनाय गहनमपि । अपिशब्देन यत्कथमपि न क्रियते तदपि शीलितमनुभूतम् । तेन कारणेन मम इदं हृदयमसमशरकीलितं वर्तते । अथवा यदित्यव्ययं सर्वनामप्रतिरूपकं यस्येत्यर्थे । यस्यानुस्मरणाय एवं कृतं तेन हेतुना तमेव हेतुं कृत्वा मम हृदय-


निराशयाधिकं विललापेति भावः ॥ २ ॥ विविधविलापमेव गीतेन कथयति-कथितेति । गीतस्यास्य गौडमालवरागः प्रतिमठतालः । गीतार्थस्तु इह विपिने कं जनं यामि शरणम् । यद्वा कं जलमग्निं च यमं शरणं यामि । तेन विना जलप्रवेशमग्निप्रवेशं यमगृहं यामीत्यर्थः । कीदृशी । सखीजनानां वचनेन वञ्चिता प्रतारिता । मया हरिरानीयत एवेति सखीजनेन प्रतारितेत्यर्थः । सख्योऽप्येवं प्रतारिकास्तदा कोऽन्यो विश्वासपात्रं भवेदिति भावः । 'को ब्रह्मात्मानिलार्केषु शमने सर्वनाम्नि च । पावके च मयूरे च मुखशीर्षजषु कम् ॥' इति विश्वः । 'शरणं गृहरक्षित्रो:' इत्यमरः । सखीवचनमेवाह-कथितेति । कथितसमयेऽपि सख्यत्रे स्वयमेव कथितो यः समयः कालोऽस्मिन्नवसरे मया सङ्केतस्थलमागन्तव्यमिति । यद्वा । सख्या मदग्रे यः समयः कथितस्तदपि बनं सङ्केतनिकुञ्जं न ययौ न गतवान् । इदमारूढमेव मे यौवनं तारुण्यममलरूपमपि निर्मलसौन्दर्यमपि विफलम् । पूर्वे तदागमनप्रत्याशया स्थितं संप्रत्यवधिलङ्गने निरवधि(?) दुःखोऽपि भोगोऽसमर्थः । शरीरं त्यक्ष्याम्येव, मम यौवनं यास्यतीति भावः ॥ १ ॥ यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि शीलितं तेन कृष्णेन निमित्तभूतेन मम हृदयमसमशरेण कामशरेण कीलितं विद्धम् ॥ २ ॥ मम मरणमेव



  1. १'ललित स०' इति पाठः.