पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् मालवरागयतितालाभ्यां गीयते । प्र० ॥ १३ ॥ केथितसमयेऽपि इरिरहद्द न ययौ वनं मम विफलमिदममलरूपमपि यौवनम् । यामि हे कमिह शरणं सखीजनवचनवञ्चिता ॥ ध्रुवम् ॥ १ ॥ यदनुगमनाय निशि गहनमपि शीलितं तेन मम हृदयमिदमसमशरकीलितम् || यामि ३० ॥ २ ॥ [सर्गः बिना दुःस्था विप्रलब्धा तु सा मता' | आर्या ॥ २॥ पूर्वे ध्रुवः । यामीति – हे सखि, इह अस्मिन्नवसरे कं शरणं यामि । किंभूताहम् । सखीति | सख्य एवं जन इतर- जनवत् । तद्वचनेन त्वमत्र संकेतस्थाने तिष्ठ तमहमानयामि कुतश्चित्कारणादत्रैव स्थितया विप्रलब्धा । इति ध्रुवः ॥ अथ पदानि कथितेति-आत्मगतं कथयति । मम इदं यौवनं विफलम् । किंभूतम् । अमलरूपमपि । अथवा यौवनं रूपं च द्वयमपि निष्फलम् । अत्रापिशब्दो भूषणकलादीनामनुक्तानां समुच्चयार्थः । अत्र कारणमाह - अहह इति कष्टे । हरिः कथितसमयेऽपि संकेतितकालेऽपि वनं न ययौ न प्राप्तवान् । यतः ‘प्रियेषु सौभाग्यफला हि योषितः ॥ १ ॥ अपि च ॥ यदिति । यद्यस्माद्धेतोर्निशि रात्रौ अनुगमनाय । अर्थात् हरेरनुगमनाय गहनमपि । अपि- शब्देन यत्कथमपि न क्रियते तदपि शीलितमनुभूतम् । तेन कारणेन मम इदं हृदयमसमशरकीलितं वर्तते । अथवा यदित्यव्ययं सर्वनामप्रतिरूपकं यस्येत्यर्थे । यस्यानुस्मरणाय एवं कृतं तेन हेतुना तमेव हेतुं कृत्वा मम हृदय- Dillied by 19 निराशयाधिकं विललापेति भावः ॥ २ ॥ विविधविलापमेब गीतेन कथयति कथितेति । गीतस्यास्य गौडमालवरागः प्रतिमठताल: । गीतार्थस्तु इइ विपिने कं जनं यामि शरणम् । यद्वा कं जलमनिं च यमं शरणं यामि । तेन विना जलप्रवेशममिप्रवेशं यमगृहं यामीत्यर्थः । कीदृशी सखीजनानां वचनेन वश्चिता प्रतारिता । मया हरिरानी. यत एवेति सखीजनेन प्रदारितेत्यर्थः । सख्योऽप्येवं प्रतारिकास्तदा कोऽन्यो विश्वासपात्रं भवेदिति भावः । 'को अात्मानिलार्केषु शमने सर्वनानि च । पावके च मयूरे च मुखशीर्षजलेषु कम् ॥' इति विश्व: । 'शरणं गृहरक्षित्रोः' इत्यमरः । सखीवचनमे- बाइ-कथितेति । कथितसमयेऽपि सख्यमे स्वयमेव कथितो यः समयः कालोऽस्मि नवसरे मया सङ्केतस्थलमागन्तव्यमिति । यद्वा । सख्या मदये यः समयः कथितस्तदपि बनं सङ्केतनिकुअं न ययौ न गतवान् । इदमारूढमेव मे यौवनं तारुण्यममलरूपमपि निर्मरूसौन्दर्यमपि विफलम् । पूर्व तदागमनप्रत्याशया स्थितं संप्रत्यवभिलने नि- रवधि (?) दुःखोऽपि भोगोऽसमर्थः । शरीरं त्यक्ष्याम्येब, मम यौवनं यास्यतीति भाषः ॥ १ ॥ यस्य कृष्णस्यानुगमनायानुसरणाय निशि रात्रौ गहनमपि शीलितं तेन कृष्णेन निमित्तभूतेन मम हृदयमसमशरेण कामशरेण कीलितं विद्धम् ॥ २ ॥ मम मरणमेव १ ' ललित स० ' इति पाठः - Google