पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ७] रसिकप्रिया ~~ रसमजर्याख्यटीकाद्वयोपेतम् सतमः सर्गः ७ नागरनारायणः । अत्रान्तरे च कुलटाकुलवर्त्मघात- संजातपातक इव स्फुटलाञ्छनश्रीः । वृन्दावनान्तरमदीपयदंशुजालै- दिक्सुन्दरीवदन चन्दनबिन्दुरिन्दुः ॥ १ ॥ प्रसरति शशधरबिम्बे विहितविलम्बे च माधवे विधुरा । विरचितविविधविलापं सा परितापं चकारोचैः ॥ २ ॥ नृपः कुम्भकर्णः श्रुतं वाचिधत्ते मनोघीश्वरासेवने सन्निधत्ते । हृदीशं परं वासुदेवं निधत्ते वरं गीतगोविन्द गानं विधत्ते ॥ इदानीं मानिनीमानखण्डनाखण्ड मण्डलं इति । अत्रान्तरे एतस्मिन्नवसरे चन्द्रोदयं वर्णयन्नाह अत्रान्तर इन्दुर्वृन्दावनान्तरमंशदी पैरदीपयत्प्रकाशि- तवान् । किंविशिष्टः | स्फुटलाञ्छनश्रीः स्फुटकलङ्गशोभः । उत्प्रेक्षते। कुलटाकुल- वर्त्मघातसंजातपातक इव । अन्योऽपि यः कश्चन यस्य कस्यचन मार्गघातं करोति स कलङ्की भवत्येव । किंभूत इन्दुः । दिक्सुन्दरीवदनश्रीखण्डतिलक इव । वसन्ततिलका । अत्र रूपकोत्प्रेक्षे अलंकृती ॥ १ ॥ इदानीं विप्रलब्धायास्त्रस्या विधुरत्वं कथयति – प्रसरतीति । सा राधा उच्चैः परितापं चकार खेदं चकार । कथं यथा भवति । विरचितविविधालापं यथा स्वात्तथा । किंभूता सा | । अतिशयविधुरा । क्व सति । शशवरबिम्बे प्रसरति सति । उद्गच्छति सति । माधवें च कृतविलम्बे सति । 'प्रेक्ष्य दूर्ती स्वयं दत्वा निकेतं नागतः प्रियः । यस्यास्तेन अत्रान्तर इति । अत्रान्तरेऽस्मिन्नवसरे । इन्दुश्चन्द्रोंऽशुजालैः किरणसमूहैर्वृन्दावना- 1 न्तरं वृन्दावनमध्यमदीपयत्प्रकाशितवान् । दिक्पूर्वा दिक्सैव सुन्दरी कामिनी तस्या बदनस्य मुखस्य चन्दनबिन्दुर्मण्डलाकारतिलकम् । अत्र पूर्णचन्द्रो वर्ण्यत्वेन बोध्यः । खण्डचन्द्रे चन्दनविन्दुसादृश्याभावात् । पुनः कीदृशः । स्फुटीभूता प्रकटिता लान्छनक- लङ्कस्य श्रीः शोभा यत्र तादृशः । कुलटाकुलस्य व्यभिचारिणीसमूहस्य यो वर्त्मपातः संकेतगमनमार्गप्रतिरोधस्तेन संजातं पातकं यस्य सः । अपरस्यापि कृतपापस्य कलङ्क: स्फुटीभवतीति ध्वनिः ॥ १ ॥ प्रसरतीति । शशधरविम्बे चन्द्रविम्बे प्रसरति सति । माघवे कृष्णे विहितविलम्बे कृतकालक्षेपे सति । विधुरा दुःखिता राधोच्चैः परितापं चकार । कथं यथा स्यात् । विरचितो विविधो नानाविधो विलापो यत्रैवं यथा स्यात् । पूर्व तदा गमनशङ्काप्यासीय | चन्द्र उदितेऽभिसारिणां कुत्र संचार इति तदागमनं प्रति १ 'वर्त्मपात' इति पाठः ।

  1. Google

९९ Dgilized by