पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ गीतगोविन्दकाव्यम् [सर्गः ६ राधाया वचनं तदध्वगमुखान्नन्दान्तिके गोपतो गोविन्दस्य जयन्ति सायमतिथित्राशस्त्यगर्भा गिरः ॥४॥ इति श्रीगीतगीविन्दे वासकसज्जावर्णने धृष्टवैकुण्ठो नाम षष्ठः सर्गः ॥ ६ ॥ कालेऽतिथयः सायमतिथयः । तेषां प्राशस्त्यं स्वागतादिसंभारेण प्रशंसा, तद्गर्भे यासां ताः । तथा किंविशिष्टस्य गोविन्दस्य । नन्दान्तिके नन्दसमीपे तत्ताहक्सङ्केतसूचना- रूपमध्वगमुखान्निःसृतं राधाया वचनं गोपतः गोपायितुः । गां पालयतीति गोपः गोपायते: पचाद्यच् । 'आयादयः' इति तलोपे सार्वविभक्तिकस्तसिः । तस्य गोषतः । अत्र पितुः सङ्केताशङ्कां मा प्रतीक्षीदिति गोपने तात्पर्यम् । अत्र तदपहवादपह्नुति- रलंकारः ॥ प्रशंसाछद्मना व्याजोक्तिरपि । पितुः समीपे तादृग्वचो लज्जावहमिति तदपाकरणार्थं अप्रस्तुतप्रशंसापि । तदिति किम् । हे भ्रातः पथिक भाण्डीरभूमिरुहि इति वटवृक्षे किं विश्राम्यसि । अत्र विश्रामं मा कृथाः कुत इति हेतुगर्भे विशेषण- माइ । किंविशिष्टे वृक्षे कृष्णभोगिभवने । कृष्णश्चासौ भोगी च कृष्णाभोगी तस्य भव- नं तस्मिन् कृष्णसर्पावासे इत्यर्थः । अत्र भ्रातृपदेन भ्रातृव्यत्वम् । तेन च मत्सङ्केत- स्थानमेतदिति व्यज्यते । पक्षे कृष्णश्चासौ भोगी हारी च तस्य निवास: । अत्रार्थद्व- याश्लेषिकृष्णशब्देन लेोऽलंकारः । तर्हि किं कुर्वित्याशङ्कयाह । इतो वढात्सानन्दन- न्दास्पदं न यासि अपि तु याहि इति लोडथंलक्षणो लट् । सानन्दमृद्धिमत्तन्नन्दास्पदं चेति । अनेनात्र अन्यपरित्यागेन यत्प्रार्थ्यते तत्सुलभमिति । तर्हि दूरे भविष्यतीत्या- शङ्कयाह । दृष्टिगोचरं आसन्नमेवं सानन्देति पथिकविशेषणं वा । सांप्रतमानन्देऽपि सर्प- दंशादकुशलतामाप्स्यसीति । औचितीमाह । अत्र कृष्णवटाद्यैरालम्बनैर्विभावै तदपाक- तिनिषेधाभिव्यक्तो रतिस्थायी विप्रलम्भाख्यः शृङ्गारो रसः । आशीरुसरेऽलंकृती | निसर्गचित्रोज्ज्वलयुक्तिसगै व्याचष्ट षष्ठं रसिकप्रियायाः । सगै नृपप्रामकिरीटरत्नं श्रीकुम्भकर्णस्तृणितस्मरोऽत्र | इति श्रीमहाराजाधि नवभरतश्रीकुम्भकर्णविरचिते श्रीकुम्भखा- मिमन्दरखादरे गीतगोविन्दविवरणे वासकसजावर्णने धन्यवैकुण्ठो नाम षष्ठः सर्गः ॥ गुणेषु ये दोषदृशः परेषां ब्रूमः स्वदोषावरणाय किं तान् । स्वतः पिधास्यन्ति ममात्र दोषान्सन्तस्ततस्तानपि किं ब्रवीमि ॥ इति श्रीमहामहोपाध्यायश्रीशङ्कर मिश्रविरचितायां शालिनाथकारितायां गीतगोविन्दटी कायां षष्ठः सर्गः ॥ ★ Google Dilized by