पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] रसिकप्रिया-रसमञ्जर्याख्यटकाइयोपेतम् इत्याकल्पविकल्पतल्परचना सङ्कल्प लीलाशत- व्यासक्तापि विना तया वरतनुर्नैषा निशां नेष्यति ॥ ३॥ किं विश्राम्यसि कृष्ण भोगिभवने भाण्डीरभूमीरुहि भ्रातर्याहि न दृष्टिगोचरमितः सानन्दनन्दास्पदम् । ● हे माधव, एषा सखी । एषेति एतत्पदप्रत्यक्षे व्यापाराद्बुद्धौ प्रत्यक्षीकृत्याह । एषा वरतनुरित्येवंक्रमेण आकल्पविकल्पतल्परचनासंकल्पलीलाशतव्यासकापि नेप- ध्यवितर्ककिसलयशय्याविरचनत्वत्प्रात्युचित्त विलासशयनेष्वासक्तापि सती त्वया विना निशां न नेष्यति निशां नेतुं न शक्ता भविष्यतीति । इतीति किम् । तान्येच कानिचिदाह । अङ्गेषु अवयवेषु त्वचित्तापहारि आभरणं करोति । कथं बहुशः । बहुश इति अननुरूपपरित्यागेन त्वञ्चित्तप्रीतिकरपरिग्रहो योल्यते । अपि च । पत्रे वृक्षपत्रे पतत्रिपक्षेऽपि वा । अपिशब्दात्तृणादिपरिस्पन्दो लभ्यते । तस्मिन्संचारिणि संचारणशीले त्वामेव प्राप्तं परिशकते विचारयति । अत्र एवकारं विनापि 'पार्थो धनुर्धरः' इतिवत्सर्वाणि वाक्यानि सावधारणान्येवेति कृत्वा एवकाराक्षेपः । अपि च अवश्यमा गमिष्यतीति कृत्वा शय्यां वितनुते । ततस्त्वामपश्यन्ती चिरं त्वामेव ध्यायति । शय्यां विरचय्य सेन सह मयात्रैव मे कामकेलयः कर्तव्या इति चिरं ध्यायति । अन्योऽपि यःकश्चिन्मानसव्यथाभिभूतो रजन्यतिवाहनेऽसमर्थः स तदति- वाहनायै कार्यान्तरव्याससया चेतो रमयति । शार्दूलविक्रीडितं वृतं, समुयमोऽलं- कारः ॥२॥ इदानीमाशीर्व्याजेन सर्गान्तमाविष्करोति ॥ किमिति । गोविन्दस्य गिरो । जयन्ति सर्वोत्कर्षेण वर्तन्ते । भावगर्मतया वतुर्वेदग्ध्यख्यापनेन सर्वोत्कृष्टत्वम् । तत्वेन च नमस्कार्यत्वम् । किंभूता गिरो वाचः । सायमतिथिप्राशस्त्यगर्भाः । सायं- वरतनुः सुन्दरी रात्रि न नेष्यति न प्रभातं प्रापयिष्यति । कीदृशी । इत्यनेन प्रकारे- णाकल्पोऽलंकारो विकल्पस्त्वदागमनशङ्का तल्पं शय्या तद्रचना संकल्पस्त्वदीयसंगादि- ध्यानमित्यादिलीलाशतव्यासङ्गेऽपि त्वत्सङ्गाभिलाषिण्यास्तस्या न कुत्रापि मनो रमत इति भावः । अलंकारादिव्यासङ्गमेवाह -- अनेष्विति । अद्वेष्वाभरणं करोतीति भावः । अनेनाकल्प उक्तः । अथ च बहुशो वारंवारं पत्रेऽपि संचारिणि पक्ष्यादिचरणघातेन चलति सति त्वां प्राप्तमागतं परिशङ्कते। अनेन विकल्प उक्तः । अथ च शय्यां शयनीय वितनुते विस्तारयति । अनेन तल्परचनोक्ता । अथ च चिरं बहुकालं व्याप्य स्वां ध्यायति चिन्तयति। अनेन संकल्प उक्तः । तथा च तवागमनप्रत्याशया एतैर्व्या- पारैः संप्रति काले नयति । यदि च सर्वथा त्वया न गन्तव्यं तदा त्वत्सङ्गं प्रति निराशा सती रात्रि नेतुं न शक्ष्यतीति भावः । अस्पताख्यश्च हावो वर्णितः । तदुक्तम्-'अल्पता सा तु कथिता प्रियस्यागमने सति । दिदृक्षयोस्वद्वत्संभ्रममलंकृति:' (?) इति । 'शा- कल्पवेषौ नेपथ्यम्' इत्यमरः । 'तर्कों विकल्पः शङ्का च' इति च । 'तल्पं च शयनीयें स्यात्तस्पमहकलत्रयोः' इति विश्व: । 'संकल्पः कर्म मानसम् ।" इत्यमरः ॥ ३ ॥ (किं- विभाम्यसीत्यादि लोकस्य व्याख्यानं नोपलभ्यतेऽस्यां टीकायाम् ) ॥ ४ ॥ Google Dgilized by