विपुलपुलकपालिः स्फीतसीत्कारमन्त-
र्जनितजडिमकाकुव्याकुलं व्याहरन्ती ।
तव कितव विधायामन्दकन्दर्पचिन्तां
रसजलधिनिमग्ना ध्यानलग्ना मृगाक्षी ॥ २ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि
प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ।
दिवर्णनम् । पदसंततितस्तेनाः पाटाः खरसमुच्चयः ॥ ततः पद्मानि यत्र स्युर्लयमध्यममानतः । स प्रबन्धवरो ज्ञेयो धन्यवैकुण्ठकुङ्कुमः ॥ इति धन्यवैकुण्ठकुङ्कुमनामा द्वादशः प्रबन्धः । शठो नायकः गूढविप्रियकृच्छठः । चिन्तात्वरावती वासकसज्जा नायिका। तल्लक्षणं'केलीगृहमथात्मानं मण्डयत्येष्यति प्रिये । सखी बूती समाप्तिं समगादिति'॥ (?) ॥ १२ ॥ इदानीं तस्यास्तदेकपरत्वमाह । विपुलेति । हे कितव धूर्त, सा मृगाक्षी तव अमन्दकन्दर्पचिन्तामतिशयितकामचिन्तां कृत्वा विधाय ध्यानलग्ना सती स्मरजलनिधिमग्ना शृङ्गारसागरे लीना । किंभूता सा । विपुला महती रोमाञ्चपङ्क्तिर्यस्याः सा । अपि किंभूता । स्फीतसीत्कारप्रवृसीत्कारं यथा स्यात्तमा । अन्तः अर्थात् विरहेणैव जनिताभ्यां जडिमकाकुभ्यां व्याकुलं यथा स्यात्तथा व्याहरन्ती भाषमाणा || 'ननमयययुतेयं मालिनी भोगिलोकैः'। इति मालिनी छन्दः । रसवदलंकारः ॥ १ ॥ इदानीं सा राधा ध्यानादिना त्वया सह रममाणापि साक्षात्त्वामलभमाना न कथंचिन्निवृत्तिमेष्यतीत्वाह - अङ्गेष्विति ।
मुदितमतिशयेनानन्दितं तनुतां विस्तारयतु ॥ ८ ॥ विपुलेति ।......[१] इत्यादि. कन्दर्पचिन्तां विधाय तथापि त्वं चेन्न मिलसि तदा तव ध्यानमेवाचरतीत्यर्थः । कीदृशी । विपुला प्रचुरा पुलकपालि: रोमाञ्चपङ्क्तिर्यस्याः । ध्यानकल्पिततव करस्पर्शोद्भूतरोमाञ्चनतीत्यर्थः । किं कुर्वती । काकुव्याकुलं यथा स्यात्काक्वा ध्वनिविकारविशेषेण व्याकुलं यथा स्यादेवं व्याहरन्ती । ध्यानेनैव तव करं नीवीबन्धनोन्मोचनाशक्तं परिकल्प्य कुट्टिमिताख्यानमाश्रिता मुञ्च मामित्यादिनिवेषकं वाक्यं कथयन्तीति भावः । पुनः कथं यथा स्यात् । स्फीतः प्रवृद्धः सीत्कारो यत्र । एवं यथा स्यात् । ध्यानेनैव त्वदन्तनखक्षतादिकं परिकल्प्य सीत्कारं करोतीति भावः । पुनः कथं यथा स्यात् । अन्तश्चित्ते जनितो अडिमा जाड्यं यत्रैवं यथा स्यात् । ध्यानकल्पितविलासबाधादिसमयस्तब्धाख्या (स्तम्भाख्यः) सात्विको भवति । अन्यस्यापि जलनिधिमग्नस्यान्तर्जाड्यशीतवशात्सीत्कारो व्याकुलं त्रुय्यद्वर्णे यथा स्यादेवं भवतीति ध्वनिः । इयं च जडताख्या पञ्चम्यवस्था । तल्लक्षणं चोक्तं प्राक् । कुट्टिमितलक्षणं रसार्णवसुधाकरे - 'केशाधरादिभहणे मोदमानापि मानसे । दुःखितेव वहिः कुप्येषत्र कुट्टिमितं तु तत्' इति । 'स्तम्भचेष्टा प्रतिध्वनिः' इति शृङ्गारदीपिका | 'काकुः स्त्रियां विकारो यः शोकमीत्यादिभिर्ध्वनेः' इत्यमरः ॥ २ ॥ पुनः कृष्णं स्वरयितुमाह-अङ्गेष्विति। हे कृष्ण, त्वया विना
- ↑ १ अत्र टीकांशस्त्रुटित इव मत्यादर्शपुस्तके |