पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] रसिकप्रिया – रसमञ्जर्याख्यटकाद्वयोपेतम् त्वरितमुपैति न कथमभिसारम् । इरिरिति वदति सखीमनुवारम् || नाथ हरे० ॥ ५॥ विष्यति चुम्बति जलधरकल्पम् । हरिरुपगत इति तिमिरमनल्पम् ॥ नाथ हरे० ॥ ६ ॥ भवति विलम्बिनि विगलितलज्जा । विलपति रोदिति वासकसज्जा || नाथ हरे० ॥ ७॥ श्रीजयदेवकवेरिदमुदितम् । रसिकजनं तनुतामतिमुदितम् ॥ नाथ हरे० ॥ ८ ॥ त्वरितेति । सा राधा अनुवार वारं वारं सखीमिति बदति । इतीति किम् । हे सखि, हरिस्त्वरितं शीघ्रं अभिसारं सङ्केतस्थानं कथं नोपैति कथं न याति ॥ ५ ॥ लिष्यतीति । हे हरे, सा हरिरुपगत इति कृत्वा स्निग्धनीलत्वसाम्यादनल्पं स्थूलं तिमिरमन्धकारं लिष्यति चुम्बति च । किंभूतं तिमिरम्। किंचिजलधरसदृशं ।। ६ ।। भवतीति । हे हरे, सा वासकसज्जा नाम नायिका भवति । त्वयि विलम्बन- कारिणि संति विलपति विलापान्करोति रोदिति अश्रूणि विमुश्चति । 'दूतीमहरहः प्रेक्ष्य सजिते वासवेश्मनि । यस्या न मिलति प्रेयान्सा हि वासकसजिका' इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवकवे रिदमुदितं रसिकजनं भतिमुदितं हृष्टतरं तनु- ताम् । अथवा रसिकजनेन मुदितं हर्ष तनुताम् ॥ ८ ॥ तथा च सङ्गीतराजे । 'मालवीयः स्मृतो गौडो रागस्तालोऽङ्गतालकः । शृङ्गारो विप्रलम्भाख्यो रसो देवा- मधुरिपुरिति चिन्तयन्तीति भावः । लीला च हावविशेषस्तदाह वात्स्यायन: 'प्रयोजनस्व चेष्टा या क्रियतेऽनुकृतिः सेयं लीलोक्ता मुनिसत्तमैः' इति (?) ॥ ४ ॥ त्वरितमिति । हरिस्त्वरितममिसारकुक्षं कथं नोपैत्यागच्छतीति सखीमनुवारं सा बदति ॥ ५ ॥ शिष्यतीति । सा हरि: कृष्ण उपगत आगत इति बुज्यानल्पमधिकं तिमिरमन्धकारं विष्यत्यालिति चुम्नति । कीदृशं तिमिरम् । जलभरकल्पं श्याममेघसदृशम् । यदा यदोत्थाय तवान्तिकं चलति तदा तदा निकुञ्जद्वारि पुजीभूतमन्धकारं दृष्ट्वा त्वछ्रमा- त्तस्यैव चुम्बनालिङ्गनादिकमाचरतीत्यागन्तुमेव न पारयतीति भावः । अन्तिमानयमलं- कारः । तल्लक्षणं प्रागेवोक्तम् ॥ ६ ॥ भवतीति । पश्चाद्विशेषदर्शने सति, भवति त्वयि विलम्बिनि विलम्बं कुर्वति सति विगलितलज्जा सती सा वासके लीलाग्र कान्तामि- सरणाय सज्जा संभृतसकललीलोपकरणा विलपति । हे निष्कृप, कथमेतावदौदास्यं मयि त्वया रचितमिति विलापं करोति । रोदिति रोदनं करोति । वासकसज्जालक्षणं तु रसार्णवसुधाकरे—'भरतार्थैरति देवस्त्रीणां (?) वासस्तु वासकः । स्ववासकवशात्कान्ते समेष्यति गृहं प्रति । सज्जीकरोति चात्मानं या सा वासकसज्जा' इति । शृङ्गारतिलके 'भवेदासकसज्जासौ सज्जिताकरतालया' इति ॥ ७ ॥ श्रीजयदेवेति । श्रीजयदेवकवेरिद- मुदितं कथितम् । रसिकजनं शृङ्गाररसास्वादपुरःसर भगवद्भक्तिरूपरसास्वादग्राहिणमति- Google Dilized by