सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११५

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति
९०
[सर्गः ६
गीतगोविन्दकाव्यम्

त्वदभिसरणरभसेन वलन्ती[]
पतति पदानि कियन्ति चलन्ती || नाथ हरे० ॥ २ ॥
विहितविशदविसकिसलयवलया ।
जीवति परमिह तव रतिकलया || नाथ हरे० ॥ ३ ॥
मुहुरवलोकितमण्डनलीला[]
मधुरिपुरहमिति भावनशीला || नाथ हरे० ॥ ४ ॥


तस्या राधाया एव अधरमधूनि पिबन्तम् । एवमवस्थमेवेत्यर्थः । तदधरसंसर्गान्मधुराणि मधूनि यान्यक्षराणि तानि शृण्वन्तम् । अत्यादरं श्रवणं पानमुच्यते । तस्यादरश्रवणेन तस्यालीकत्वं द्योत्यते । प्रतिवञ्चनाभावात् ॥ १ ॥ त्वदभिसरणेति । हे माधव, सा राधा त्वदभिसरणे रमसेन वलन्ती संभजमाना । अर्थादभिसारवेगम् । कियन्ति पदानि चलन्ती सती पतति तस्मात्स्थानादधिकं गन्तुमशक्तेत्यर्थः ॥ २ ॥ विहितेति । सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य उपायः । किं भूता सा । विहिता कृतपाण्डुरमृणालांकुरकटका ॥ ३ ॥ मुहुरिति । सा महुर्वारं वारमवलोकिता मण्डनानां लीला विलासो यया सा । इमानि तानि मण्डनानि तत्सुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिदधाति । किंभूता सती। अहं मधुरिपुरिति भावनशीला ध्यानस्वभावा । एतेन स्त्रीयोग्यानि मण्डनानि मुक्त्वा त्वद्विरहदुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव त्वद्रूपीभूय कालमतिवाहयतीत्यर्थः । अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा। 'स्त्रीणां प्रियालोकफलो हि वेशः' इति त्वच्चेतोहराणि मण्डनानि आदधाना वर्त्तते ॥ ४ ॥


न्तोऽन्यपर्यायः सर्वनामगणे पठितः । तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे 'त्वच्छद्वोऽन्यवाची द्विः पठितः । स्वरभेद एक उदात्तोऽन्योऽनुदात्त इति काशिकाकारमतम् ।ग्रन्थान्तरमते स्वेकोऽकारान्तोऽन्यस्तकारान्तो द्वावप्यनुदात्तौ' इति । 'भोगावासो वासगृहम् ।' इति हारावली ॥ १ ॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत आह–त्वदिति । तवाभिसारे यो रभस उत्सहस्तेन चलन्ती प्रसाधनादौ व्याप्रियमाणा कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पतति स्खलति । तथा च त्वद्विरहसंतप्ता त्वदन्तिकमागन्तुमसमर्था ॥ २ ॥ नन्बेवं चेदशक्तं तर्हि कथं जीवतीत्यत आह -विहितेति । सा परं केवलं तव रतिकलया पूर्वांनुभूतनवरतेराकलनेन जीवति । कीदृशी। विहिता विशदैर्निर्मलबिसैर्मृणालैः किसलयैर्नवपल्लवैश्च वलयाः कङ्कणानि यस्याः सा |'कलना कालयोः कला' इति विश्वः । ‘वलय कङ्कणे च’ इत्यपि ॥ ३ ॥ पुनः कीदृशी । मुहुरिति । मुहुर्वारंमालोकिता ....मण्डनैर्मुकुटकुण्डलवनमालाभिर्लोला तवानुकृतिर्यया सा । पुनः कीदृशी । अहं .......रिपुरिति मानवशीला चिन्तनपरा । रहसि तव वेशं विधायानुरागातिशयेनाहमे.........


  1. १'चलन्ती'इति पाठः।
  2. २'मण्डललीला' इति पाठः ।