पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 [सर्गः ६ लदभिसरणरभसेन वेलन्ती । पतति पदानि कियन्ति चलन्ती || नाथ हरे० ॥ २ ॥ विहितविशद विसकिसलयवलया । · गीतगोविन्दकाव्यम् जीवति परमिह तब रतिकलया || नाथ हरे० ॥ ३ ॥ मुहुरवलोकितमण्डनलीला । मधुरिपुरहमिति भावनशीला || नाथ हरे० ॥ ४ ॥ तस्या राधाया एव अधरमधूनि पिबन्तम् । एवमवस्थमेवेत्यर्थः । तदधरसंसर्गान्मधु- राणि मधूनि यान्यक्षराणि तानि शृण्वन्तम् । अत्यादरं श्रवणं पानमुच्यते । तस्या- दरश्रवणेन तस्यालीकत्वं द्योत्यते । प्रतिवञ्चनाभावात् ॥ १ ॥ त्वदभिसरणेति । हे माधव, सा राधा त्वदभिसरणे रमसेन वलन्ती संभजमाना । अर्थादभिसारवेगम् । कियन्ति पदानि चलन्ती सती पतति । तस्मात्स्थानाधिकं गन्तुमशक्केत्यर्थः ॥ २ ॥ विहितेति । सा परं तव रतिकलया रतिविज्ञानेन रतिशिल्पेन परं जीवति नान्य उपायः । किं भूता सा । विहिता कृतपाण्डुरमृणालांकुरकटका ॥ ३ ॥ मुडुरिति । सा महुर्वारं वारमवलोकिता मण्डनानां लीला विलासो यया सा । इमानि तानि मण्ड- नानि तत्पुरतसमारम्भयोग्यानीति मुहुर्मुहुः कानिचित्परिद्धाति । किंभूता सती । अहं मधुरिपुरिति भावनशीला ध्यानखभावा । एतेन स्त्रीयोग्यानि मण्डनानि मुक्त्वा त्वद्विरहृदुःखापनोदाय पुरुषायितसुरतयोग्यानि मण्डनानि दधाना स्वयमेव लद्रूपीभूय कालमति वाह्यतीत्यर्थः । अथवा त्वदलाभात्स्वयमेव त्वं च राधा च भूत्वा । 'स्त्रीणां प्रियालोकफलो हि वेशः' इति त्वचेतोहराणि मण्डनानि आदधाना वर्त्तते ॥ ४ ॥ न्तोऽन्यपर्यायः सर्वनामगणे पठितः । तदुक्तं सर्वादिगणव्याख्याने प्रक्रियाप्रसादे 'स्वच्छ- ब्दोऽन्यवाची द्विः पठितः । स्वरभेद एक उदात्तोऽन्योऽनुदात्त इति काशिकाकारमतम् । ग्रन्थान्तरमते स्वेकोऽकारान्तोऽन्यस्तकारान्तो द्वावप्यनुदात्तौ' इति । 'भोगावासो वासगृहम् ।" इति हारावली ॥ १ ॥ ननु किमिति सीदति, अत्रैव किमिति नायातीत्यत आह–स्वदिति । तवाभिसारे यो रभस उत्स/इस्तेन चलन्ती प्रसाधनादौ व्याप्रिय- माणा कियन्ति पदानि कतिपयानि पदानि चलन्ती त्वदन्तिकमागन्तुं गच्छन्ती पठति स्वलति । तथा च त्वद्विरइसंतप्ता त्वदन्तिकमागन्तुमसमर्था ॥ २ ॥ नन्वेषं चेदशा तर्हि कथं जीवतीत्यत आह - विहितेति । सा परं केवलं तव रतिकलया पूर्वांनुभूत- नवरतेराकलनेन जीवति । कीदृशी विहिता विशदैर्निर्मलविसैर्मृणालैः किसलयैर्नव- पलवैश्च वलयाः कङ्कणानि यस्याः सा | 'कलना काल्यौः कला' इति विश्वः । ‘वलयः कङ्कणे च’ इत्यपि ॥ ३ ॥ पुनः कीदृशी । मुहुरिति । मुहुरंबारमालोकिता वी पि मण्डनैर्मुकुटकुण्डलवनमालाभिर्लोला सवानुकृतिर्थया सा । पुनः कीदृशी । अहं म रिपुरिति माननशीला चिन्तनपरा । रइसि तव वेशं विधायानुरागातिशयेना में १ ' चलन्ती' इति पाठः । २' मण्डललीला' इति पाठः । Google Dgilized by C