पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६] रसिकप्रिया- रसमझर्याख्यटीकाद्वयोपेतम् षष्ठः सर्गः ६ धृष्टवैकुण्ठः । अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा । तच्चरितं गोविन्दे मनसिजमन्दे सखी माह ॥ १ ॥ गोण्डकरीरागेण रूपकतालेन गीयते । प्र० ॥ १२ ॥ पश्यति दिशि दिशि रहसि भवन्तम् । तेदधरमधुरमधूनि पिबन्तम् || नाथ हरे सीदति राधा वासगृहे ॥ ध्रुवम् ॥ १ ॥ इदानीं कुत्रचित्कु राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति ॥ अथ तामिति । अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास । किंभूते गोविन्दे | मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशफां ज्ञात्वा । शरीरान्त- वर्तिन्याः शक्तेदर्शनाविषयत्वेन दृष्टेति । दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव लतागृहे सङ्केत्तस्य कृतत्वात् । आर्याछन्दः ॥ १ ॥ पूर्वे ध्रुवपदं व्याक्रियते | नाथ- हरे इति । हे नाथ आवासगृहे सङ्केतस्थाने राधा सीदति अवसादं प्राप्नोति ॥ अथ पदानि ॥ पश्यतीति । सा राधा रहसि रहो निमित्तान्तरनिमित्तं एकान्तनि मित्तं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः । तदद्वैतमभवदित्यर्थः । 'सहमविरहविवेके वरमिह विरहो न सङ्गमस्तस्याः । सके सापि तथैका त्रिभुवनमपि तन्मयं विरहे ॥ किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् । ८९ भयेति । अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच । कीदृशे गोविन्दे । मनसिजेन कामेन मन्द मन्दगतौ । किं कृत्वा । तां राधां लतागृहे कचिलतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां वृष्ट्वास्मिन्नेव लतागृहे केलि: कर्तभ्येति चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशीम् । गन्तुमशक्तां कृष्णान्तिकं प्रयातुमसमर्थाम् । 'मन्दः खले मन्दगते मूर्खं स्वैरेऽल्परोगिणोः' इति विश्व: । भाषया यदुवाच तद्गीतेन कथयति – पश्यतीति । गीतस्यास्य गुणकरीरागो रूपकतालः । गीत स्तु-हे नाथ, हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति । विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकाम्ते दिशि दिशि भवन्तं । पश्यति 1 कीदृशं मवन्तम् । त्वदधरमपुरमधूनि स्वदीयाभररूपाणि मधुरमधूनि तिमास्वादयन्तम् । भावनायां स्वकीयाधरपानं कुर्वन्तं स्वामेव दिशि दिशि यतीति भावः । यद्रा त्वच्छब्दस्त्वन्यवाचकः तथा च त्वदभरमथुरमधूनि त्वत्तोऽन्यस्या नायिकाया अधरमधुरमधूमि पिबन्तं दिशि दिशि पश्यतीति भावः । स्वच्छब्दस्तकारा- ई १ ' गुणकरी' इति पाठ:. २ 'स्वदभर' इति पाठः । ★ Google Dgilized by