षष्ठः सर्गः ६
धृष्टवैकुण्ठः
|
अथ तां गन्तुमशक्तां चिरमनुरक्तां लतागृहे दृष्ट्वा | |
गोण्डकरीरागेण[१] रूपकतालेन गीयते । प्र० ॥१२॥
|
पश्यति दिशि दिशि रहसि भवन्तम् । |
इदानीं कुत्रचित्कुञ्जे राधां संस्थाप्य दूती तच्चेष्टितं कृष्णे विनिवेदयति ॥ अथ तामिति । अथानन्तरं राधासखी तच्चरितं राधायाश्चरितं गोविन्दे निवेदयामास । किंभूते गोविन्दे । मनसिजमन्दे । किं कृत्वा । तां राधां गन्तुमशक्तां ज्ञात्वा । शरीरान्तर्वर्तिन्याः शक्तेर्दर्शनाविषयत्वेन दृष्ट्वेति । दृशिरत्र ज्ञानार्थः । किंभूताम् । तां चिरं गोविन्देऽनुरक्ताम् । अथवा लतागृहे इति तस्याधिकरणत्वेन व्याख्येयम् । अत्रैव लतागृहे सङ्केतस्य कृतत्वात् । आर्याछन्दः ॥ १ ॥ पूर्वे ध्रुवपदं व्याक्रियते । नाथहरे इति । हे नाथ आवासगृहे सङ्केतस्थाने राधा सीदति अवसादं प्राप्नोति ॥ अथ पदानि ॥ पश्यतीति । सा राधा रहसि रहो निमित्तान्तरनिमित्तं एकान्तनिमितं वा दिशि दिशि भवन्तं पश्यति । सर्वा दिशस्तस्यास्त्वन्मया एव जाता इत्यर्थः । तदद्वैतमभवदित्यर्थः । 'सङ्गमविरहविवेके वरमिह विरहो न सङ्गमस्तस्याः । सङ्गे सापि तथैका त्रिभुवनमपि तन्मयं विरहे' ॥ किं कुर्वन्तम् । तदधरमधुरमधूनि पिबन्तम् ।
अथेति । अथानन्तरं सखी तच्चरितं गोविन्दे गोविन्दं विषयीकृत्य प्राहोवाच । कीदृशे गोविन्दे । मनसिजेन कामेन मन्दे मन्दगतौ । किं कृत्वा । तां राधां लतागृहे क्वचिल्लतामण्डपे चिरं बहुकालं व्याप्यानुरक्तां दृष्ट्वास्मिन्नेव लतागृहे केलिः कर्तव्येति चिरकालीनं तस्यानुरागं ज्ञात्वेत्यर्थः । पुनः कीदृशीम् । गन्तुमशक्तां कृष्णान्तिकं प्रयातुमसमर्थाम् । ‘मन्दः खले मन्दगते मूर्खे स्वैरेऽल्परोगिणो:' इति विश्वः । भाषया यदुवाच तद्गीतेन कथयति -पश्यतीति । गीतस्यास्य गुणकरीरागो रूपकतालः । गीतार्थस्तु -हे नाथ, हे हरे, राधा वासगृहे त्वद्भवतः सकाशात्सीदत्यवसन्ना भवति । विशेषतस्त्वमेव तस्या अवसादकारणमिति भावः । रहस्येकान्ते दिशि दिशि भवन्तं पश्यति । कीदृशं भवन्तम् । त्वदधरमधुरमधूनि त्वदीयाधररूपाणि मधुरमधूनि तमास्वादयन्तम् । भावनायां स्वकीयाधरपानं कुर्वन्तं स्वामेव दिशि दिशि यतीति भावः । यद्वा त्वच्छन्दस्त्वन्यवाचकः तथा च त्वदधरमधुरमधूनि त्वत्तोऽन्यस्या नायिकाया अधरमधुरमधूनि पिबन्तं दिशि दिशि पश्यतीति भावः । त्वच्छन्दस्तकारा-