सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८८
[सर्गः ५
गीतगोविन्दकाव्यम्

स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः[]
           कंसध्वंसनधूमेकतुरवतु त्वां देवकीनन्दनः ॥ ७ ॥

इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो

नाम पञ्चमः सर्गः ॥ ५ ॥

किरीटदेशादीनां नेपथ्योचितं भूषणोपचितं नीलरत्नमिव । पुनः किंभूतो देवकीनन्दनः । अवन्या भूमेर्भारायावतारो जन्म येषां शिशुपालदन्तवकादीनां तेषामन्तक इव । अन्तको यमसदृशोऽभूदित्यर्थः । पुनः किंभूतो देवकीनन्दनः । व्रजे सुन्दर्यः व्रजसुन्दर्यः । व्रजसुन्दरीणां जनस्तस्य मनस्तोषप्रदोषोदय इव । पुनः किंभूतो हरिः । कंसध्वंसनधूमकेतुः कंसस्य ध्वंसनं विनाशस्तत्र धूमकेतुरिव विनाशसूचकस्ताराविशेष इव। जातमात्र एव कंसविनाशं सूचितवानित्यर्थः । अत्र कंसध्वंसने गोपीनां पमेश्वरादन्यत्र गतिविनाशे धूमकेतुर्बृहद्भानुरिव प्रकाशकत्वात् । प्रकाशे हि स्वेच्छाविहारभङ्गो जायते । अथवा कसेः शातनार्थत्वाद्राधायाः कामेन यच्छातनम् । तत्र धूमकेतुरिव । स्वच्छन्दप्रदोषोदय इति यदा यदा प्रदोषोदयं वाञ्छति तदा तदा स एवेति । अथवा प्रगतो दोषोदयो यस्मात्तेन सह क्रीडन्तीनां दोष एव नास्तीति । अथ च राधामुग्धमुखारविन्दे मधुना माधुर्ये पातीति रक्षतीति । चिरं विप्रलम्भे हि प्रियदर्शनान्माधुर्यमुपपद्यत एवेति पदानामौचिती । अत्र श्लेषलुप्तोपमापरिकरवर्णोपमालंकाराः ॥ शार्दूलविक्रीडितं वृत्तम् । पाश्चाली रीतिः । आरभटी वृत्तिः । गीत्यादिपूर्वोक्तमेव ॥ ७ ॥

प्रत्याहवं पञ्चतयारिसैन्यं यो योजयत्याहवकुम्भकर्णः ॥
स कुम्भकर्णो रसिकप्रियायाः समस्करोत्पञ्चतयात्र सर्गम् ॥

इति श्री कुम्भकर्णेन विरचितायां गीतगोविन्दटीकायां
      रसिकप्रियायां सर्गोऽगात्पश्चमः ॥


एकान्तस्थलं प्राप्ताम् । पुनः कीदृशीम् । अनङ्गतरङ्गिभिरनङ्गस्य कामस्य यस्तरङ्गः पुनः पुनरुद्बोधस्तद्युक्तैरङ्गैरुपलक्षिताम् । अङ्गैरित्यत्र विशेषणे तृतीया ॥ ६ ॥ ( अत्र राधामुग्धेस्यादिश्लोकस्य टीकाः नोपलब्धादर्शपुस्तके ) ॥ ७ ॥

नो 'भूयाः (पाः) कति सन्ति तेषु विरला विद्वद्गुणग्राहिणः
     तन्मध्येऽपि नवप्रबन्धगणनानिर्बन्धिनो दुर्लभाः।
द्वित्रास्तेष्वपि कैटमद्विट्---- प्रेमानुबन्धाः क्षिता-
      वेतेषां धुर एक एव वहति श्रीशालिनाथः प्रभुः ॥

इति श्रीमहामहोपाध्यायश्रीशंकरमिश्रविरचितायां श्री शालिनाथकारितायां
    गीतगोविन्दटीकायां रसमञ्जर्याख्यायां प्रथमः सर्गः ॥ ५ ॥



  1. १'तोषप्रदोषश्चिरम्' इति पाठ:।