पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८ गीतगोविन्दकाव्यम् [सर्गः स्वच्छन्दं व्रजसुन्दरीजनमनस्तोषप्रदोषोदयः कंसध्वंसनधूमेकतुरवतु त्वां देवकीनन्दनः ॥ ७ ॥ इति श्रीगीतगोविन्देऽभिसारिकावर्णने साकाङ्क्षपुण्डरीकाक्षो नाम पञ्चमः सर्गः ॥ ५॥ किरीटदेशादीनां नेपभ्योचितं भूषणोपचितं नीलरत्नमिव । पुनः किंभूतो देवकीनन्दनः । अवन्या भूमेर्भारायावतारो जन्म येषां शिशुपालदन्तवकादीनां तेषामन्तक इव । अन्तको यमसदृशोऽभूदित्यर्थः । पुनः किंभूतो देवकीनन्दनः । व्रजे सुन्दर्यः व्रज- सुन्दर्य: । त्रजसुन्दरीणां जनस्तस्य मनस्तोषप्रदोषोदय इव । पुनः किंभूतो हरिः । कंसध्वंसनधूमकेतुः कंसस्य ध्वंसनं विनाशस्तत्र धूमकेतुरिव विनाशसूचकस्तारा- विशेष इव। जातमात्र एव कंसविनाशं सूचितवानित्यर्थः । अत्र कंसध्वंसने गोपीनां घर- मेश्वरादन्यत्र गतिविनाशे धूमकेतुबृहद्भानुरिव प्रकाशकत्वात् । प्रकाशे हि खेच्छाविहा रभङ्गो जायते । अथवा कसेः शातनार्थवाद्राधायाः कामेन यच्छातनम् । तत्रं धूमकेतुरिव । स्वच्छन्दप्रदोषोदय इति यदा यदा प्रदोषोदयं वाञ्छति तदा तदा स एवेति । अथवा प्रगतो दोषोदयो यस्मात्तेन सह क्रीडन्तीनां दोष एव नास्तीति । अथ च राधामुग्धमुखारविन्दे मधुना माधुर्य पातीति रक्षतीति । चिरं विप्रलम्भे हि प्रियदर्शनान्माधुर्यमुपपद्यत एवेति पदानामौचिती । अत्र ऋषप्तोपमापरिकरवर्णी- पमालंकाराः || शार्दूलविक्रीडितं वृत्तम् । पाश्वाली रीतिः । आरभटी वृत्तिः । गीत्यादि- पूर्वोतमेव ॥ ७ ॥ प्रत्याहवं पञ्चतयारि सैन्यं यो योजयत्याहवकुम्भकर्णः ॥ स कुम्भकर्णो रसिकप्रियायाः समस्करोत्पञ्चतयात्र सर्गम् ॥ इति श्री कुम्भकर्णेन विरचितायां गीतगोविन्दटीकायां रसिकप्रियायां सर्गोऽगात्पञ्चमः ॥ एकान्तस्थलं प्राप्ताम् । पुनः कीदृशीम् । अङ्गतरनिभिरङ्गस्य कामस्य यस्तरङ्गः पुनः पुनरुद्बोधस्तमुक्तैरभैरुपलक्षिताम् । अमेरित्यत्र विशेषणे तृतीया || ६ || ( अत्र राधामु- ग्धेत्यादिलोकस्य टीका• नोपलब्धादर्शपुस्तके ) ॥ ७ ॥ नो भूया: (पाः) कति सन्ति तेषु विरला विद्वगुणग्राहिणः तन्मध्येऽपि नवप्रवन्धगणनानिर्बन्धिनो दुर्लभाः । द्वित्रास्तेष्वपि कैटमद्विद् प्रेमानुबन्धाः क्षिता- वेतेषां धुर एक एव वहति श्रीशालिनाथः प्रभुः ॥ इति श्रीमहामहोपाध्यायश्रीशंकर मिश्रविरचितायां श्रीशालिनाथकारितायां गीतगोविन्दट्टीकायां रसमजर्याख्यायां पथमः सर्गः ॥ ५ ॥ १ 'तोषप्रदोषश्चिरम्' इति पाठः । Google Dgilized by St