पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५] रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् ८७ सभयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि प्रतितरु मुहुः स्थिला मन्दं पदानि वितन्वतीम् । कथमपि रहः मातामङ्गैरनङ्गतरङ्गिभिः सुमुखि सुभगः पश्यन्स त्वामुपैतु कृतार्थताम् ॥ ६ ॥ राधामुग्धमुखारविन्दमधुप त्रैलोक्यमौलिस्थली- नेपथ्योचितनीलरत्नमवनीभारावतारान्तकः । इदानीं त्वत्प्राप्तिरेव श्रीकृष्णस्य सर्वस्वमिति दर्शयन्त्याह- सभयेति । हे सुमुखि, राधे, स सुभगः श्रीकृष्णस्त्वां पश्यञ्जानन्कृतार्थतामुपेतु कृतकृत्यो भवतु । अत्र दृशि- ज्ञाने वर्तते । किंभूतां त्वाम् । तिमिरे तिमिरवति पथि मार्गे सभयचकितं स्याद्यथा दृशं विन्यस्यन्तीम् । समयचकितमिति भयविस्मयस्थायिभावौ भयानकाद्भुतावुक्तौ भवतः । निबिडे हि तमसि भयं भवत्येव । तादृशि च भावितभयानके पथि संकेतस्थानं या- मीति विस्मयः । एवं प्रियस्यापि प्रियतमेन समं समागमो भविष्यति न वेति शङ्काव काशोऽपि । किंभूतां त्वाम् । प्रतितरु तरुं तरुं प्रति स्वननितम्ब भारभरालसतया मु हुरं वारं स्थित्वा कोऽपि मां मा द्राक्षीदिति मन्दं पदानि वितन्वतीम् । प्रतितरु अत्र वा स मे प्रियो भविष्यतीत्याशङ्कया मुहुः स्थित्वेति योजनीयम् । किंभूताम् । कथमपि केनचित्प्रकारेण पूर्वोक्तसखीवचन नीलनिचोलादिसाधनसंपत्त्याभिमानपरित्या- गेन मय्यनुकम्पया वा रहः प्राप्ताम् । पुनः किंभूताम् । अनङ्गतरङ्गिभिः कामकल्लोल- रुपलक्षिताम् । अत्र तमसो नैबियाद्दर्शनायोग्यत्वेऽङ्गस्पर्शनादेव ज्ञातेति कृत्वा हसेर्शानार्थो व्याख्यात इत्याकूतम् । अत्र हरिणी वृत्तम् । अतिशयोक्तिरलंकारः । ॥ ६ ॥ इदानीं संभोगाख्यं शृङ्गारमवतारयंस्तदापतनिकाद्वारेण सर्गान्ताशिषमाह - राधामुग्धेति । देवकीनन्दनः श्रीकृष्णस्त्वामवतु रक्षतु । किंभूतो देवकीनन्दनः । राधामुग्धमुखारविन्दमधुपः । मुखमरविन्दमिवेति मुखारविन्दं मुग्धं च तत् मुखारविन्दं च मुग्धमुखारविन्दम् । राधाया मुग्धमुखारविन्दं च तस्मिन्मधुप इव मधुपः । अनेन भावी संभोगो योतितः । पुनः किंभूतो हरिः । त्रैलोक्यमौलिस्थलीनां चितमिति भावः । 'दम्पती जम्पती जायापती भार्यापती च तौ इत्यमरः ।। ५ ।। पुन रपि स्वरयितुं कृष्णोत्कण्ठामाइ- समयेति । हे सुमुखि सुभगः शोभनः श्रीकृष्णास्त्वां पश्यन्कृतार्थतामुपैतु प्रामोतु । कीदृशम् । तिमिरेऽन्धकारे सति पथि वर्त्मनि तदा भय- चकितं भवसहितं यथा स्यादेवं दृशं नेत्रं विन्यस्यन्तीमर्पयन्तीम् । पुनः कीदृशीं त्वाम् । प्रतितरु | तरुं तरुं प्रति मुहुः पुनः पुनः स्थित्वा मन्दं यथा स्यादेवं पदानि वितन्वतीम् । गादान्धकारे तमालविटपेषु को वेदात्र कृष्णः स्थितो भविष्यतीत्याशयेन वायमेव कृष्ण इति भ्रमातदन्तिकमुपेत्य पश्चाद्विशेषदर्शने सति तत उत्थाय पुनरमे तथेत्येवं प्रतितरु स्थित्यागच्छन्तीमिति भावः । पुनः कीदृशीम् । कथमपि शनैः शनैश्चरणाक्षेपादिना रह १ 'दृशौ इति पाठः । Google Dgilized by