पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[सर्गः ५ ८६ अन्यायें गतयोर्भ्रमान्मिलितयोः सम्भाषणैर्जानतो- र्दम्पत्योरिह को न को न तमसि ब्रीडाविमिश्रो रसः ||५ गीतगोविन्दकाव्यम् हि सर्वमपि सर्वरसागमं भवतीति । किंभूतयोर्दम्पत्योः । अन्यार्थ गतयोः परस्त्रीपर- पुरुषत्वेन प्रासयोः । पुनः किंभूतयोः । भ्रमान्मिलितयोः प्रतिकुअमितस्तः परित्र- मणान्मिलितयोः । सान्द्रे तमसि परस्परालापैरेव जानतोः । अथवालमपैरित्यत्र सात्वि- कभावेन खरभङ्गादेवावगमात् । अथवान्यमर्थे प्रयोजनमुद्दिश्य गतयोः । परस्त्रीपरपु- रुष हि व्याजान्तरेणैव मिलतः । अन्येषां भ्रान्तिमुत्पाद्य मिलितयोः । तमेव रसमाह -आश्लेषादनु भयस्थायिभावो भयानकः प्रादुर्भावमासादयति । चुम्बनादनु मा मेति क्षामाक्षरोलापिनीं कान्ताकामलंग्य (?) कृतं हठनृत्त्येति शोकमिवानुभवन्करुणाकलि- तान्तःकरणो भवति । तदनुभावे प्रोत्साहनार्थंमुत्साहात्मा नखोल्लेखादनु वीरोऽवत- रति । एवं साधने संमिलिते किमिदमपूर्व सुखमन्वभवमिति भावान्तरं गमितयोर्षिस्म- यसहचरोऽद्भुत उद्भटतामाटीकते । एवं च कामोद्बोघे नानाविलासविलसितादनु हा- ससहावस्थानो हास्यः समुलसति । एवं कृतपरिकरसंकरः सकलरसचक्रवर्ती आनन्द- मधुसन्दोहमधुरो रतिसहचरः शृङ्गाररसः समुन्मिषति । तथ्घतिकरादनु प्रीतयोरुक्त- रसः सर्वोऽपि त्रीडासंवलितः शृङ्गारत्वे समुन्मिषति । अत्रश्लेषानन्तरं चुम्बनं ततो नखक्षतं, ततः कामविकाराः, ततो मैथुनं, ततः प्रीतिः, ततो रसभावनेति कमोऽपि कामशास्त्रकथितः । तदुक्तं भरते- 'आश्लेषचुम्बननखक्षतकामबोधशीघ्रत्वमैथुनमन- न्तसुखप्रबोधम् । प्रीतिस्ततोऽपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं र मन्ते' ॥ शार्दूलविक्रीडितं छन्दः । दीपकमलंकारः समुञ्चयो भ्रान्तिमांच ॥ ५ ॥ यापत्योः को न ब्रीडाविमिश्रो लज्जासमन्वितो रस आविर्भवतीत्यर्थः । कीदृशोर्दम्पत्योः अन्यार्थ गतयोरन्यां नायिकामन्यनायकं चोद्दिश्य गतयोः । पुनः कीदृशो: । आशेषाद्नु आलिङ्गनात्पश्चाशुम्बनं तद्नु यो नखोलेखः, तदनु यः संभ्रमः संभोगादरः का- मोद्वेगः, तदनु यो रतारम्भः सुरतारम्भः सदनु प्रीतयोर्लब्धानन्दयोः संभाषणैर्जानतोर- न्यनायिकानामग्राहिपत्युरन्यनायकनामग्राहिपढयाश्चालापैः कथं पतिः कथमियं मे पत्नीति स्वरविशेषेण जानतोरित्यर्थः । रतान्ते परस्परं शातेऽपि तुल्यापराधात्परस्परदोषोद्भाव- नम् । किंतु । लज्जासहितः शृङ्गाररस एवाविर्भवतीत्यर्थः । अथ प्रथममाश्लेषस्ततभुम्बनं ततो नखक्षतं ततः कामोद्रेकस्ततः संभ्रमस्ततो रतान्तस्ततः प्रीतिस्ततो रसभावनमिति कामशास्त्रसिद्धः क्रमोऽपि कथितः । तदुक्तं भरते — 'आश्लेषचुम्बननखक्षतकामबोधः शीघ्रत्वमैथुनमनन्तसुखप्रबोधम् । प्रीतिस्ततोपि रसभावनमेव कार्यमेवं नितान्तचतुराः सुचिरं रमन्ते * ॥ इति । नन्वष्टधा सुरतरतमप्युकं कामशास्त्रे । तत्र च दन्तक्षतकूजितके- शमद्दणादिकमप्युक्तम् । तथा च कामशास्त्रोक्तकमरक्षा नेति न वाच्यम् । तस्य निःशङ्क- केलिकमाभिधायकत्वादिह तु परपुरुषं परनारी चोद्दिश्य गतयोः शङ्काकुलचित्तत्वात्संक्षि- तपूर्वोक्तक्रमेणैव सुरतारम्भ उचित इति भावः । तथाइ रुद्रः – 'ईर्ष्याकुलस्त्रीषु न नाय. कस्य निःशकेलिने पराङ्गनासु' इति । तस्मादेतादृशे गाडान्धकारे से गमनविलम्बनमनु- 11 Google Dilized by 4