सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ५]
८५
रसिकप्रिया - रसमञ्जर्याख्पटीकाद्वयोपेतम्

त्वदाम्येन[] समं समग्रमधुना तिग्मांशरस्तंगतो
               गोविन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् ।
कोकानां करुणस्वनेन[] सदृशी दीर्घा मदभ्यर्थना
                तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः ॥ ४ ॥
आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज-
        प्रोद्बोधादनु सम्भ्रमादनु रतारम्भादनु प्रीतयोः ।


इति कदनशब्दतात्पर्यम् । हरिणी छन्दः । दीपकालंकारः ॥ ३ ॥ इदानीं साम्प्रतमेव गन्तुं साम्प्रतमिति हेतुमाह -त्वद्वाम्येनेति । हे मुग्धे, समग्रं यथा स्यात्तथाधुना - त्वद्वाम्येन समं तव वक्रतया सहितं रविरस्तं गतः। (रविः) तवाभिमानश्चोभयमेचाभिसारविलम्बकर्तृ गतमित्यर्थः। च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां प्राप्तम् । तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव। अयं कालोऽभिसारत्वरायै। अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धिं प्राप्तः। अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणस्वनेन सदृशी दीर्घा जाता।.सदृशीति विरहाधिक्यात्करुणनिवेदकस्वरत्वाच्च। तत्तस्मात्कारणाद्विलम्बनं विफलममिसरणक्षणातिपातो निरर्थकः। असावभिसारक्षणो रम्यो वर्तते । ईदृशी प्रियवादिनी प्रियसखी, सान्द्रान्धतमसं चानुकूलं नीलनिचोलादि साधनं,प्रियतमस्त्वदेकतानः । एवं सति गमनविलम्बने 'मुग्धे' इति संबोधनमौचितीमावहति । सहोक्तिरलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥ तत्रागतायास्ते बहुविधकामकौतुकं भविष्यतीति प्रलोभयति -आश्लेषादिति । इह तमसि वर्तमाने दम्पत्योव्रींडाविमिश्रः कः को रसो न इति न । अपि तु सर्व एव रसो भवतीति । व्रीडाविमिश्रत्वे ।


त्वरयितुमाह —त्वद्वाष्पेति । हे मुग्धे, असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्यस्ततो विलम्बनं विफलं निष्फलम् । रम्यहेतुमाह । त्वद्वाष्पेण त्वदीयनेत्रजलेन सह तिग्मांशुः सूर्यः समग्रं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः । त्वदीयबाष्प- मप्यस्तं गतं सूर्योऽप्यस्तं गत इत्यर्थः । क्वचित् 'वाक्येन समम्' इति पाठः । तदा त्वदीयवाक्येन त्वदीयवचनेन समं तिग्मांशुरस्तं गतः । मयि गमनाय त्वरयन्त्यामुत्तरम- प्रयच्छन्त्यास्ते वाक्यं मुखान्नोपलभ्यत इत्यर्थः । तमस्तिमिरं गोविन्दस्य मनोरथेन समं वाञ्छया सह सान्द्रतां निबिडतां प्राप्तं गतम् । गोविन्दस्य मनोरथोऽन्धकारश्च निबिडो जात इत्यर्थः । कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण (ध्वनिना) सदृशी दीर्घा विस्तीर्णा मदभ्यर्थना संपन्ना । यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं मदीया वागुक्तयोऽपि संप्रति तवाग्रे भवन्तीति भावः । अयं सहोक्तिनामालंकारः । तदुक्तं दण्डिना –'सहोक्तिः सहभावेन कथनं गुणकर्मणाम्' इति ॥४॥ पुनरप्यन्धकारस्य नैविख्यकथनेनाभिसारक्षणस्यातिरम्यतामेवाह -आश्लेषादिति। इह तमसि दम्पत्योर्जा-


  1. १'त्वद्वाष्पेनत्वद्वाक्येन' इतिच पाठौ।
  2. २'स्वरेण' इति पाठः ।