पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः ५] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् लंदाम्येन समं समग्रमधुना तिग्मांशशुरस्तंगतो गोबिन्दस्य मनोरथेन च समं प्राप्तं तमः सान्द्रताम् । कोकानां करुणस्नेन सदृशी दीर्घा मदभ्यर्थना तन्मुग्धे विफलं विलम्बनमसौ रम्योऽभिसारक्षणः॥ ४ ॥ आश्लेषादनु चुम्बनादनु नखोल्लेखादनु स्वान्तज- प्रोद्धोधादनु सम्भ्रमादनु रतारम्भादनु श्रीतयोः । इति कदनशब्दतात्पर्यम् । हरिणी छन्दः । दीपकालंकारः ॥ ३ ॥ इदानीं साम्प्रतमेव गन्तुं साम्प्रतमिति हेतुमाह - त्वद्वाम्येनेति । हे मुग्धे, समग्र यथा स्यात्तथाधुना त्वद्वाम्येन समं तब चकतया सहितं रविरस्तं गतः । ( रविः ) तवाभिमानश्चोभयमे - चाभिसारविलम्बकर्तृ गतमित्यर्थः । च पुनर्गोविन्दस्य मनोरथेन सह तमः सान्द्रतां. प्राप्तम् । तिग्मांशावस्तं गते चन्द्रे चानुदिते तमः सान्द्रं भवत्येव । अयं कालोऽभि- सारत्वरायै । अनु च सान्द्रे तमसि मत्प्रियागमिष्यतीति गोविन्दस्य मनोरथो वृद्धि प्राप्तः । अनु च मम प्रार्थना कोकानां चक्रवाकानां करुणस्वनेन सदृशी दीर्घा जाता।. सदृशीति विरहाधिक्यात्करुणनिवेदकवरत्वाच्च । तत्तस्मात्कारणाद्विलम्बनं विफलम. मिसरणक्षणातिपातो निरर्थकः | असावभिसारक्षणो रम्यो वर्तते । ईदृशी प्रियवा- 7 दिनी प्रियसखी, सान्दान्धतमसं चानुकूलं, नीलनिचोलादि साधनं, प्रियतमस्त्व- देकतानः । एवं सति गमनविलम्बने 'मुग्धे' इति संबोधनमौचितीमावहति । सहो- फिरलंकारः | शार्दूलविक्रीडितं वृत्तम् ॥ ४ ॥ तत्रागतायास्ते बहुविधकामकौतुकं भविष्यतीति प्रलोभयति-~आश्लेषादिति । इह तमसि वर्तमाने दम्पत्योत्रींडावि- मिश्रः कः को रसो न इति न । अपि तु सर्व एव रसो भवतीति । ब्रीडाविमित्वे 1 • त्वरयितुमाइश्वद्वाष्पेति । हे मुग्धे असावभिसारक्षणोऽभिसारयोग्यः क्षणो रम्य- स्तो विलम्बनं विफलं निष्फलम् | रम्यहेतुमाइ । स्वद्वाष्पेण त्वदीय नेत्रजलेन सह तिग्मांशुः सूर्यः समञं यथा स्यात्सामस्त्येन यथा स्यादेवमस्तं गतः । स्वदीयबाष्प- मध्यस्तं गतं सूर्योऽप्यस्तं गत इत्यर्थः । कचित् 'वाक्येन समम्' इति पाठः । तदा त्वदीयवाक्येन त्वदीयवचनेन समं तिग्मांशुरस्तं गतः । मयि गमनाय त्वरयन्त्यामुप्तरम- प्रयच्छन्त्यास्ते वाक्यं मुखान्नोपलभ्यत इत्यर्थः । तमस्तिमिरं गोविन्दस्य मनोरथेन स बान्छया सह सान्द्रतां निविडतां प्राप्तं गतम् । गोविन्दस्य मनोरथोऽन्धकारच निविडो जात इत्यर्थः । कोकानां चक्रवाकानां करुणस्वरेण करुणरसगर्भेण ( ध्वनिना ) सदृशी दीर्पा विस्तीर्णा मदभ्यर्थना संपन्ना | यथा कोकानां करुणस्वरो नानाप्रकारः श्रूयत एवं मदीया बाधुक्कयोऽपि संप्रति समाग्रे भवन्तीति भावः । अयं सहोक्तिनामालंकारः । त । दुक्तं दण्डिना–‘सहोक्तिः सहभावेन कथनं गुणकर्मणाम्” इति ॥४॥ पुनरप्यन्धकारस्य नैविख्यकथनेनाभिसारक्षणस्यातिरम्यतामेवाइ-आश्लेषादिति । इह तमसि दम्पत्योर्जा- १ 'स्वद्वाष्पेन' 'त्वद्वाक्येन' इतिच पाठौ । २ 'स्वरेण' इति पाठः । ८ Dgliced by Google