पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} सर्गः ५] रसिकप्रिया–रसमञ्जर्याख्यटीकाद्वयोपेतम् विगलितवसनं परिहृतरसनं घटय जघनमपिधानम् | किसलयशयने पङ्कजनयने निधिमिव हर्षनिधानम् | धीर० ॥ ६ ॥ हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् । कुरु मम वचनं सखररचनं पूरय मधुरिपुकामम् ॥ धीर० ॥ ७ ॥ श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् । प्रमुदितहृदयं हरिमतिसदयं नमत सुकृतकमनीयम् | धीर० ||८|| विगलितेति। हे राधे, किसलयशयने शय्यायां वर्त्तमाने पङ्कजनयने पुण्डरीकाक्षे जघनं घटय । किं भूतं जघनम् । विगलितवसनम् । स्वयमेव ततः परिहृतरसनं त्यक्तभेखलम् । अत एव वसनपिधानरहितम् । अत एव निधिना उपमीयते । कमिव निधिमिव । किं भूतं निधिं जघनं च । हर्षनिदानं हर्षस्यांदिकारणम् ॥६॥ हरिरभिमानीति । हे राधे सत्व- ररचनं यथा स्यात्तथा मम वचनं कुरु । सत्वररचनं शीघ्रप्रसाधनम्। किंभूतं वचनम् । मधु- रिपुकामं कृष्णवाञ्छां पूरय । न पूर्यते चेत् किं स्यात् । हरिरभिमानी त्वत्तो लाघवं न सहते। पश्चात्त्वां त्यक्ष्यति । पश्चादपि करिष्यसि चेदिदानीमेव कुरु । अन्यथेदानीमियं रजनिरपि विरामं याति । अभिसारकालोऽपि यास्यति । वर्त्तमानसामीप्याद्वर्तमानवत् ॥ ७ ॥ श्रीजयदेवेति । हे वैष्णवाः, हरिं नमत नमस्कुरुत । किं भूतं हरिम् । जय- देवेऽति सदयम् । किंभूते जयदेवे । परमरमणीयमिदं पूर्वोक्तं भगति । तत एव बलाका कामुकी प्रोक्ता बलाका रवको मतः' (?) इति शाश्वतः ॥ ५ ॥ पुरुषायितसुखो- त्कण्ठां कारयित्वा संप्रति नायककृतरतोत्कण्ठां जनयितुमाह - विगलितमिति । हे पक्कजनयने पद्मनयने राधे, किसलयशयने नवपल्लवशय्यायां कृष्णेन रचितायां जघनं घटय आरोपय । कीदृशं जघनम् । विगलितं कोटिकन्दर्पलावण्यश्रीकृष्णदर्शनेन स्वयमेव स्खलितं वसनं यस्य तत् । अत एवापिधानमावरणं यत्र ईक्षितम् । पुनः कीदृशम् । परिता दूरीकृता रसना क्षुद्रघण्टिका येन तादृशम् । पुनः कीदृशम् । हर्षस्थान- न्दस्य निधानं गृहम् । कमिव । निधिमिव । 'रसना काबीजिन्हयोः' इति विश्व: ॥ ६ ॥ हरिरिति । हरि: कृष्णोऽभिमानी मनस्वी । तथा चैतावता दैन्येनापि दुर्ग्र- इमत्यजन्त्यां त्वयि को वेदौदास्यमेवाचरेदिति भावः । इयं रजनिरपि रात्रिरपीदानीं बिराममसवानं याति । तथाच मम वचनं 'चल सखि कुअम्' इत्यादि मद्राक्यं कुरु । कीदृशम् । सत्वरं त्वरया वेगेन सहितं गमनं रचयेति सत्वररचनम् । मधुरिपोः कृष्णस्य कामं वान्छां पूरय । नायिका चात्राभिसारिका । तलक्षणं च रसार्णवे- 'मदनानलसंतप्ता याभिसारयति प्रियम् । ज्योत्लीतम स्विनीयानयोग्याम्बरविभूषणा ॥ स्वयं चाभिसरेया तु सा भवेदभिसारिका' । इति ॥ ७॥ श्रीजयदेवेति । श्रीजयदेवे कवी | कृता हरे: सेवा येन तादृशे परमरमणीयं यथा स्यादेवं भणति सति । हे जना, इरि कृष्णं नमत । कथं यथा स्यात् । प्रमुदितमानन्दयुक्तं हृदयं यस्य तादृशम् । १ 'निदानम्' इति पाठः । Dgilized by Google