पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गीतगोविन्दकाव्यम् [सर्गः उरसि मुरारेरुपहितहारे घन इव तरलबलाके । तडिदिव पीते रतिविपरीते राजसि सुकृतविपाके | धीर० ॥ ५ ॥ मञ्जीरं नूपुरं यज । किंभूतं मञ्जीरमधीरमज्ञम् । अत एव मुखरं वाचालम- भिसारोचितं न जानाति । अथवा साध्वेतन्मञ्जीरस्य मुखरत्वं यतो निमित्तनैमित्तिकं, कुतो मञ्जीर ध्वनावित्यत उत्पतेः । पुनः किंभूतम् । केलौ क्रीडायां सुलोलमतिलो- लम् । अत एव रिपुमिव । अपि च नीलनिचोलं नीलं रक्तकृष्णं वस्त्रं शीलय परिधेहि । किं भूतम् । कुञ्जे तिमिरपुञ्जेन सहितं । अथवा सतिमिरपुओं यथा स्यात्तथा चल ॥ ४ ॥ उरसीति । हे राधे, हे पीते, पीतवर्णे गौरि । त्वं मुरारेरुरसि सुकृतविपाके पुण्यप रिणामे राजसि राजयिष्यसि । वर्त्तमान सामीप्ये वर्तमानवत् । किंभूत उरसि । उपहित आरोपितो हारो यस्मिन् । का कस्मिन्निव । तरलबलाके घन इव मेघ इव चञ्चलपक्षि- विशेषे । केव तडिदिव । कदा । रतिविपरीते पुरुषायितरतिसमये । उपहितहारमुर- स्तरलबलाका घनेनोपमीयते । सा पीता तडिता । तस्याः पुरुषायिते चञ्चलत्वम् ॥ ५ ॥ कमिव शत्रुमिव । रिपुरप्यधीर उत्तरलो मुखरो वाचाल: केलौ सुलोलश्च भवतीति म जीरे तत्साम्यम् । हे सखि सतिमिरपुअनान्धकारसमूहेन सहितं कुअं चल गच्छ ! नीरूनिचोलं प्रच्छदपदं शीलय परिधेछि । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । 'नि-. चोल: प्रच्छदपटः' इति यादवः ॥ ४ ॥ राषाया अत्युत्कण्ठां जनयितुमाह ----वरसीति । हे पीते, गौराङ्गि। पुनः कीदृशे । सुक्कृतविपाके सुकृतस्य पुण्यस्य विपाकः परिणामो यस्यास्सादृशी । पुनः कीदृशे । उपहितहारेऽपितो छारो यया तादृशे । रतिविपरीते रतौ सुरते विपरीते वैपरीत्ये पुंसीभवनाय त्वं मुरारेरुरसि हृदये राजसि । अधुनैव राजयिष्यसि । राजसीत्यत्र भविष्यत्सामीप्ये वर्तमानः । यद्वा 'सुकृतविपाके' 'उपादित- हारे' इति द्वयमप्युरसीत्यस्यैव विशेषणम् । तदा त्वत्सुक्कृतस्य विषाकस्वरूपे, उपदितः द्वारो यत्र तादृशे उरसीत्यर्थः । केव । तडिदिव विद्युदिव । उरसि कीदृशीष तरल- बलाके । तरलाश्चश्चला बलाका बकपत्र तादृशे धन इव मेघ इव । अत्र पीतवि- तो राधाया उपमानान्मेघसजलत्वं विवक्षितम् । तदुक्तम् ‘पीता वर्षाय विज्ञेया' इति । अत्र कृष्णस्य हृदयश्यामस्वेन सजलमेघसाम्यम् । राधायाश्चश्चलहारस्य चचलबलाकाप- डिसाम्यम् । राधायाश्च तदानीं तरलतया पीततया पीतविद्युत्साम्यम् । अत्र यद्यपि व काकाया मेषस्याधः स्थितत्वाद्विद्युतश्चोपरि वर्तमानत्वाद्धारविशिष्टकृष्णोरस्थलसद्राधी- पमानं च तरलबकशिविशिष्टमेघो परिस्थितविद्युतो विरुद्धं, तथापि मेघोपरि बकपङ्क्ति- यदि भवति तदुपरि च विधुत्तदैतादृशं राधाया उपमानं भवतीत्यभूतोपमा बोध्या | तदुक्तं दण्डिना–‘सर्वपद्मप्रभासार: समाप्त इव क्वचित् । सवाननं विभातीति तामभू- तोपमां विदुः’ ॥ यद्वा तरलबलाके इत्यपि राधाया एव विशेषणम् । तथा च । हे तरल- बलाके, दे चचलकामुकीत्यर्थः । तस्मिन्कोटिकन्दर्पलावण्ये दृष्टे त्वमेव कामुकी सती पुरुषायितमाचरिष्यसीति भावः । 'वलाका बकपड़ौ स्याद्वलाका बिसकण्ठिका । ! J Diglicad by Google F 1