पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

= सर्गः ५] रसिकप्रिया-रसमञ्जर्याख्यटीकाद्वयोपेतम् ८१ नामसमेतं कृतसङ्केतं वादयते मृदुवेशम् । बहु मनुतेऽतेनु ते तनुसङ्गतपवन चलितमपि रेणुम् । धीर० ॥ २ ॥ पतति पतंत्रे विचलति पत्रे शङ्कितभवदुपयानम् । रचयति शयनं सचकितनयनं पश्यति तत्र पन्थानम् । धीर० ॥ ३ ॥ मुखरमधीरं त्यज मञ्जीरं रिपुषुमिव केलिसुलोलम् । चल सखि कुझं सतिमिरपुजं शीलय नीलनिचोलम् | धीर० ४ || । आयुरेवेदमितिवत्सुखहेतुलाच्छमेव ॥ १ ॥ अपि तु । नामसमेतमिति । हे राधे, से हरिमृदुवेणुं कोमलवंशीं वादयते । मृद्विति क्रियाविशेषणं वा । कथम् । ना- मसमेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च । पुनस्ते तक तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते । कथम् । अतनु अनल्पं यथा भवति तथा ॥ २ ॥ अपिच । पततीति । हे राधे, हरिः शयनं रचयति । तव पन्थानं पश्यति । कथं यथा भवति सचकितनयनं यथा स्यात्तथा । किंभूतं पन्था- नम् । शक्तिभवदुपयानम् । शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत् । क्व सति । पत पक्षिपत्रे पतति सति । पुनः क्व सति । पत्रे वृक्षपत्रे विचलति सति ॥ ३ ॥ अपि च । मुखरमिति | हे सखि राधे, कुअं चल । अभिसारानुरूपां सामग्रीं शिक्षयति । ४

मचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह - नामसमेतमिति । नामस-

मेवं यथा स्यात्त्वनामाक्षरसहितं यथा स्यादेवं मृदुवेणुं वादयते । राधे, प्राणेश्वरि, दे सुम्दरि, इत्येवं कृष्णेन वाथमानाद्वेणोः स्वर आविर्भवतीत्यर्थः । कीदृशं वेणुम् । कृत- संकेतं यदा यत्र मया वेणुर्वाषतां तदा तत्र त्वं राधां नयेत्यर्थः । यद्वा मया कृतो यः संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते । अइमेतस्मिन्निकुञ्जे तिष्ठामि, राधे त्वरितमेहीति कृष्णेन नायमानो वेणुर्वदतीत्यर्थः । किं च । नन्विति संबो- भने । ते तनुसंगतस्त्वदमसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलीं बहु मनुतेऽधिकं यथा स्यादेवमाद्रियते । अयं रेगुर्धन्यो यस्तदनसकिना मरुता स्पृश्यते, अहमपि धन्यो यस्तेन रजसा स्पृश्ये, इत्येवं बहु मनुत इति भावः । 'रेणुर्द्वयोः स्त्रियां धूलिः' इत्यमरः ॥ २ ॥ किं च | पततीति । स कृष्णः शयनं शय्यां रचयति । कथं यथा स्यादेवम् । पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं यत्र 1 एवं यथा स्यात् तथा । कीदृशे पतत्रे । विचलितं पत्रं यस्मात्तन्न कचिद्रिचलति । पत्र इति पाठः सुगम एव सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म पश्यति । पत्रे मर्मरचश्चलाभ्यामायाता मे प्राणेश्वरीति शङ्ख्या चकितं पन्थानं पश्यतीति भावः । ‘पत्तत्रं पक्षपक्षिणोः' इति धरणिः । तदुपयानमित्यत्र 'सर्वनाम्बो वृत्तिमात्र' इति पुंबद्भावः ॥ ३ ॥ गमनोत्कण्ठितां दृष्ट्वाइ- मुखरमिति | हे सखि, मञ्जीरं नूपुरं यज । कीदृशम् । केली सुलोलं चचलमत एवाधीरममन्दं यथा स्यादेवं मुखरं शब्दायमानम् । } १ 'मनुते ननु ते' इति पाठः । २ 'पतत्रिणि विचलितपत्रे' इति पाठः । Google Dgilized by