सामग्री पर जाएँ

पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सर्गः ५]
८१
रसिकप्रिया - रसमञ्जर्याख्यटीकाद्वयोपेतम्



नामसमेतं कृतसङ्केतं वादयते मृदुवेणुम् ।
बहु मनुतेऽतनु[] ते तनुसङ्गतपवनचलितमपि रेणुम् । धीर० ॥ २ ॥
पतति पतत्रे[] विचलति पत्रे शङ्कितभवदुपयानम् ।
रचयति शयनं सचकितनयनं पश्यति तव पन्थानम् । धीर० ॥ ३ ॥
मुखरमधीरं त्यज मञ्जीरं रिपुमिव केलिसुलोलम् ।
चल सखि कुञ्जं सतिमिरपुञ्जं शीलय नीलनिचोलम् | धीर० ४ ॥


आयुरेवेदमितिवत्सुखहेतुत्वाच्छमेव ॥ १ ॥ अपि तु । नामसमेतमिति । हे राधे, सं हरिर्मृदुवेणुं कोमलवंशीं वादयते । मृद्विति क्रियाविशेषणं वा । कथम् । नामसमेतं यथा स्यात्तथा च नामाक्षरसंयुक्तं कृतसंकेतं यथा स्यात्तथा च । पुनस्ते तव तनुः शरीरं शरीरसंगतपवनचलितं रेणुमपि बहु मनुते । कथम् । अतनु अनल्पं यथा भवति तथा ॥ २ ॥ अपि च । पततीति । हे राधे, हरिः शयनं रचयति । तव पन्थानं पश्यति । कथं यथा भवति सचकितनयनं यथा स्यात्तथा । किंभूतं पन्थानम् । शङ्कितभवदुपयानम् । शङ्कितं भवत्या उपयानमागमो यस्मिंस्तत् । क्व सति । पतत्रे पक्षिपत्रे पतति सति । पुनः क्व सति । पत्रे वृक्षपत्रे विचलति सति ॥ ३ ॥ अपि च। मुखरमिति । हे सखि राधे, कुञ्जं चल । अभिसारानुरूपां सामग्रीं शिक्षयति ।


मद्वचने न प्रत्येषि तदा कृष्णेन वाद्यमानं वेणुमेवाकर्णयेत्याह - नामसमेतमिति । नामसमेतं यथा स्यात्त्वन्नामाक्षरसहितं यथा स्यादेवं मृदुवेणुं वादयते । हे राधे, प्राणेश्वरि, हे सुन्दरि, इत्येवं कृष्णेन वाद्यमानाद्वेणोः स्वर आविर्भवतीत्यर्थः । कीदृशं वेणुम् |कृतसंकेतं यदा यत्र मया वेणुर्वाद्यतां तदा तत्र त्वं राधां नयेत्यर्थः । यद्वा मया कृतो यः संकेतस्तं त्वन्नामसमेतं त्वन्नामाक्षरसहितं वेणुं वादयते । अहमेतस्मिन्निकुञ्जे तिष्ठामि, राधे त्वरितमेहीति कृष्णेन वाद्यमानो वेणुर्वदतीत्यर्थः । किं च । नन्विति संबोधने । ते तनुसंगतस्त्वदसंबन्धी यः पवनो वायुस्तेन चलितमागतमपि रेणुं धूलींबहु मनुतेऽधिकं यथा स्यादेवमाद्रियते । अयं रेणुर्धन्यो यस्तदङ्गसङ्गीना मरुता स्पृश्यते, अहमपि धन्यो यस्तेन रजसा स्पृश्ये, इत्येवं बहु मनुत इति भावः । 'रेणुर्द्वयोः स्त्रियां धूलिः' इत्यमरः ॥ २ ॥ किं च । पततीति। स कृष्णः शयनं शय्यां रचयति । कथं यथा स्यादेवम् । पतत्रिणि पक्षिणि पतति गच्छति सति शङ्कितं तर्कितं भवत्या उपयानं समीपे गमनं यत्र । एवं यथा स्यात् तथा । कीदृशे पतत्रे । विचलितं पत्रं यस्मात्तन्न क्वचिद्विचलति । पत्र इति पाठः सुगम एव । सचकितनयनं यथा स्यादेवं तव पन्थानं त्वदागमनवर्त्म पश्यति । पत्रे मर्मरचञ्चलाभ्यामायाता मे प्राणेश्वरीति शङ्कया चकितं पन्थानं पश्यतीति भावः । 'पतत्रं पक्षपक्षिणो:' इति धरणिः । तदुपयानमित्यत्र 'सर्वनाम्नो वृत्तिमात्र' इति " पुंवद्भावः ॥ ३ ॥ गमनोत्कण्ठितां दृष्ट्वाह — मुखरमिति। हे सखि, मञ्जीरं नूपुरं त्यज । कीदृशम् । कैलौ सुलोलं चञ्चलमत एवाधीरममन्दं यथा स्यादेवं मुखरं शब्दायमानन्



  1. १'मनुते मनु ते' इति पाठः।
  2. २'पतत्रिणि विचलितपत्रे' इति पाठः ।