पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० गीतगोविन्दकाव्यम् [सर्गः १ गुर्जरीरामेण एकतालीतालेन गीयते । प्र० ११ ।। रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् । न कुरु नितम्बिनि गमनविलम्बनमनुसर तं हृदयेशम् ॥ १ ॥ धीरसमीरे यमुनातीरे वसति बने वनमाली । गोपीपीनपयोधरमर्दन चञ्चलकरयुगशाली | भुवम् । F मपूरकतीर्थे येन यस्मासिद्धिराप्ता स तमेव ध्यायत्रजपनू निर्भरपरीरम्भामृतं मोक्षं वाञ्छतीत्युक्तिलेश: । शार्दूलविक्रीडितं वृत्तम् । अत्र काव्यलिङ्गमलङ्कारः ॥ २ ॥ सांत्रतं तमभिमुखमभिसरी राधां त्वरयति ॥ तत्र पूर्वे ध्रुवपदं व्याक्रियते। धीरसमीर इति । इति पदार्थपाठः कुत्रचिदस्ति । गोपीपीनपयोधरमर्दनचपलेन करयुगलेनाव्य इत्यर्थ: । 'आढ्य: शालिनि विख्यातः' । हे राधे यमुनातीरे वने यमुनातीरविषये वने । अथवा वेतसवने वनमाली श्रीकृष्णो वसति । किंभूते वने । धीरसमीरे मन्दवायुनि । एतेन वायोस्त्रैविष्यमुक्तम् । तस्याश्च स्थानेनोत्कण्ठा जनिता । इति ध्रुवः ॥ रतिसुखेति । हे नितम्बिनि, तं वनमालिनमनुसर। गमनविलम्बनमभिसाराय कालातिक्रमं न कुरु । नितम्बिनी हि बृहनितम्बत्वाञ्चलितुं न शक्नोतीति तां वरयति । किंभूतम् । अभि सारे सङ्केतस्थाने गतम् । किंभूतेऽभिसारे । रतिसुखसारे रतिसौख्यप्रधाने । किंभूतं तम् । मदनवत्कामवन्मनोहरवेशम् । पुनः किंभूतम् | हृदयेशं मनस ईशम् | तव मनस्त- दघीनमित्यर्थः । अथवा हृदये वर्तमानं तं वनमालिनमिति योज्यम् । किंभूतम् । 7 जपन्झटिति फलसिद्धिर्भवतीति ध्वनितम् । तदुक्तं मञ्जूषायाम् । 'गृहे गोष्ठवनारामनदी- नगसुरालये। अनुहागुरोः सिद्धिः शीघ्रं स्यादुत्तरोत्तरम्' इति । 'मुक्तिः कैवल्यनिर्वा- णश्रेयोनिःश्रेयसामृतम्' इत्यमरः ॥२॥ किचित्प्रसादोन्मुखीं राधां वेगेन गमनाय त्वरयि- तुमाह- रतिसुस्खेति । गीतस्यास्य गुर्जरीरागः । एकताली तालः । गीतार्थस्तु- हे नितम्बिनि प्र- शस्तनितम्मिनि, हृदयेश्वरं कृष्णमनुसर गच्छ। गमनविलम्बनं गमने कालक्षेपं मा कुरु | कीदृशं तम् । अभिसारेऽमिसरणस्थाने गतं प्राप्तम् । कीदृशेऽभिसारे । रतिसुखस्य सारमुस्कृष्टं फलं यत्र तादृशे पुनः कीदृशम् । मदनस्य कामस्येव मनोहरश्चिचहरणक्षमो वेशो यस्य तम् । ‘ आकल्पवेशौ नेपथ्यं' इत्यमरः । 'वेशो वेश्यागृहे प्रोक्तो नेपथ्ये गृहमात्रके इति विश्वः ॥ १ ॥ अभिसारस्थलमेवाह । धीरसमीर इति । यमुनातीरे वने वन- माली वनमालाशाली कृष्णो वसति । कीदृशे वने। धीरो मन्दः समीरो वायुर्यत्र ता. दृशे । अत्र 'धीर' इति पदेन वायोर्मन्दत्वं ' यमुनातीर' इत्यनेन शैत्यं 'वने' इत्यनेन सौगन्ध्यमुक्तम् । कीदृशो बनमाली । गोपीनां पीभपयोधरमर्दनेन चश्चञ्चश्मलं यत्करयुगं तेन शालते शोभत इति तथा । पाठान्तरे तु गोपीपीन पयोधरपरिसरस्य मांसलस्तनप्रान्तस्य मनं यत्करयुगं इस्तयुगलं तेन शालितुं शोभितुं शीलं यस्य तादृशः । 'समीरमारुतम- रुज्जगत्प्राणसमीरणाः' इत्यमरः । 'धीरः पण्डितमन्दयोः' इति धरणिः ॥ इति श्रुवः ॥ यदि १ 'घरपरिसरमर्दनकर' 'मर्दनचचत्कर' इति पाठान्तरम् । Google 1. Digilized by 3 े S >