पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५] रसिकप्रिया – रसमञ्जर्याख्यटीकाद्वयोपेतम् पञ्चमः सर्गः ५ साकाङ्क्षपुण्डरीकाक्षः । अहमिह निवसामि याहि राधां अनुनय मचनेन चानयेथाः । इति मधुरिपुणा सखी नियुक्ता स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ १ ॥ देशीवराडीरागेण रूपकतालेन गीयते । प्र० ॥ १० ॥ वहति मलयसमीरे मदनमुपनिधाय • स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ॥ १ ॥ तव विरहे वनमाली सखि सीदति || ध्रुवम् ॥ पुरीमिव पालयताखिलभुवं कुम्भनरेशो नत्वा शिवम् । गायति धातु रसिकामृतं जयदेवोदितं मातौ वृत्तम् ॥ इदानीं सखीनिवेदितो माधवस्तदभिमुखीभूय तदाननाय सखीं प्रहितवान् ॥ अह् मिति । सेल्यध्याहार्यम् । या पूर्व प्रहिता राधया सखी सैव स्वयमेव पुना राधामेत्य व क्ष्यमाणं जगाद । किंभूता सखी। मधुरिपुणा इति नियुक्ता इत्यादिष्टा । इतीति किम् । अ- हमिह यमुनाकुने निवसामि। यावदागमिष्यति तावत्प्रतीक्षां करिष्य इति त्वं याहि मद्र- चनेन राधामनुनय | अनुनीय च आनयेथाः । पुष्पिताप्रावृत्तम् ॥ १ ॥ तदेव वक्ष्यमाण- माह ॥ अत्राभिसारिका नायिका वर्णनीया–'संस्कृतात्प्राकृतमिष्टं ततोऽपभ्रंशभाषणम्। ततः प्रियतरा वेश्या सर्वतश्चाभिसारिका' इति भरतः ॥ तल्लक्षणं भरते –'लज्जां हिला समाकृष्टा यौवनेन व्रजेत्तु या । अभिसारगतं कान्तं कीर्तिता साभिसारिका' ॥ अत्र पूर्व ध्रुवः । तव विरहे इति ध्रुवः । अथ पदानि । वहतीति । क्व सति । मदनमुपनिधाय मदनस्य स्पृहामुत्पाद्य मलयसमीरे वहति सति पुनः क्व सति । विरहिहृदयदलनाय अहमिति । मधुरिपुणेति एवंप्रकारणे नियुक्ता आता सखी स्वयमेत्यागत्य राधा व क्ष्यमाणं जगादोवाच । इति किम् । त्वं रामां याहि मद्रचनेन तामनुनय । कृतापराधेन मया साक्षाद्वक्तुं न शक्यतेऽतो माधवेनैवमेवमुक्तमित्युक्त्वा त्वमनुनयेति भावः । तां च मदन्तिकमानयेथा आनय । ननु कुत्र मयानेया इत्यत आह । अहमिह निवसामि इहैव कुजेऽहं तो प्रतीक्ष्यमाणस्तिष्ठामीत्यर्थः ॥ १ ॥ यतत्सखी जगाद तदेव गीतेन कथयति वहतीति । गीतस्यास्य देशीवराडीरागो रूपकताल: 1 ताललक्षणमुक्तं प्राक् । गीतार्थ- स्तु — हे सखि, वनमाली कृष्णः सीदति । क सति । मलयसमीरे मल्यसंबन्धिवाते वइति, कुसुमनिकरे पुष्पसमूह विरहिणां हृदयदलनाय विदारणाय स्फुति विकसति सति । किं कृत्वा । मदनं काममुपनिषाय समीपवर्तिनं कृत्वा । तथा च कुसुमनिकरैरेव Google Dgilized by