पृष्ठम्:गीतगोविन्दम् - जयदेवः.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ गीतगोविन्दकाव्यम् [सर्गः ५ दहति शिशिरमयूखे मरणमनुकरोति । पतति मदनविशिखे विलपति विकलतरोऽति । तत्र वि०२ ॥ ध्वनति मधुपसमूहे श्रवणमपिदधाति । मनसि कलितविरहे निशि निशि रुजमुपयाति । तव वि० ३ || वसति विपिनविताने त्यजति ललितधाम । लुठति धरणिशयने बहु विलपति तव नाम | तव वि० ॥ ४ ॥ भणति कविजयदेवे विरहविलसितेन । मनसि रभसविभवे हरिरुदयतु सुकृतेन | तव वि० ।। ५ ।। कुसुमनिकरे स्फुटति सति विकसति सति ॥ १ ॥ अपिच । दहतीति । शिशिरमयूखे हिमरश्मौ दहति सति मरणमनुकरोति मृतकल्पा भवति । तत एवं मदनविशिखे पतति सति विकलतरोऽतिशयेन विकल: सन्नतीव विलपति ॥ २ ॥ अपि च | ध्वनतीति । मधुपसमूहे ध्वनति सति श्रवणमपिदधाति आच्छादयति । निशि निशि प्रतिरात्रौ मनसि कलितविरहे सति झटिति रुजं पीडामुपयाति प्राप्नोति ॥ ३ ॥ अपि च । वसतीति । विपिनविताने वनविस्तारे चण्डविषकल्पे वने वसति संतिष्ठते । त्वद्विरहेण ललितं . मनोहरमपि धाम त्यजति । पुनः किं करोति । धरणिशयने तव नाम कृत्वा परिदेवनं करोति ॥ ४ ॥ अपि च । भणतीति । कविजयदेवे भगति सति विरहविलसितेन वियोगविलासेन रभसविभव उत्साहसंपन्ने मनसि । अर्थात्तव सुकृतेन हरिरुदयं प्राप्नोतु बाणैस्तत्संनिहितेन कामेन विरक्षिणां हृदयं विदारणीयमिति भावः ॥ १ ॥ किं च । दुह तीति । शिशिरमयूखे हिमकिरणे दहति सति मरणं मरणावस्थामनुकरोति । मरणावस्थायां यादृशी मूर्च्छादिरूपा चेष्टा तां स्वीकरोति । अथ च मदनविशिखे कामबाणे पतति सति विकलतरोऽतिविव्हलतरो विलपत्यतिशयेन विलापं करोति ॥ २ ॥ किं च | ध्वनतीति । मधुपसमूहे भ्रमरसमूद्दे ध्वनति गुञ्जति सति श्रवणं श्रोत्रं हस्ताभ्यामपिदधाति मुद्रयति । अथ च निशि निशि प्रतिरात्रौ चित्ते रुजं पीडामुपयाति प्राप्नोति । कीदृशे मनसि । कलित उद्भूतो विरहो यत्र सादृशे ॥ ३ ॥ किं च । वसतीति । स विपिनविताने (वन) विस्तारे वसति तिष्ठति । ललितं मनोहरं धाम मन्दिरं त्यजति । 'धाम देहे गृहे रश्मौ स्थाने जन्मप्रभावयोः' इति विश्वः । किं च । स धरणीशयने भूशय्यायां लुठति । तव नाम, 'हे प्राणेश्वरि, हे प्रिये, हे राधे,' इत्येव बहु वारं वारं विरूपति विशेषेण जल्पति । ॥ ४ ॥ भणतीति । श्री जयदेवकवौ भणति कथयति ( सति ) यत्सुकृतं पुण्यं जातं सेन मनसि । अर्थाज्ञायतां शृण्वतां च । हरि: कृष्ण उदयत्वाविर्भवतु । कीदृशे मन- सि । रभसस्य कृष्णकीर्तन विषयोत्साहस्य विभवः प्राचुर्य यत्र तादृशे हरिविरहबिलसिं- तेन विलासेनोपलक्षित । वस्तुगत्या तस्य कालान्तर्यामिरूपतया तस्य न केनापि सह विश्लेषः, अपि तु लीलया तस्य विरहविलासमात्रमिति भावः । विरहिविलसितेने त्यत्र Dgliced thy Google i (. 1