पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

28 गणितसारसङ्ग्रहः

भिन्नभागहारः।

भिन्नभागहारे करणसूत्रं यथा
अशकृत्यच्छेद प्रमाणराशस्ततः क्रिया गुणवत् ।
प्रमितफलेऽन्यहरने विच्छिदि वा सकलवच्च भागहृतौ ॥ ८ ॥

अत्रोद्देशक ।

हिङ्गोः पलार्धमौल्यं पणत्रिपादांशको भवेद्यत्र ।
तत्रायै विक्रीणन् पलमेकं किं नरो लक्षते ॥ ९ ॥
अगरेः पलाष्टमेन त्रिगुणेन पणस्य विंशतिवंशान् ।
उपलभने यत्र पुमानेकेन पलेन किं तत्र ॥ १० ॥
पणपञ्चमैश्चतुर्भिर्नरवस्य पलसप्तमो ह्यशीतिगुणः।
संप्राप्यो यत्र स्यादकेन पणेन किं तत्र ॥ ११ ॥
व्यादिरूपपरिवृद्धियुजोंऽश
यावदष्टपदमेकाविहीनाः ।
हरकाशत इह द्वितयाद्यः
किं क फलं वद परेषु हतेषु ॥ १२ ॥

इति भिन्नभागहारः ।

भिन्नवर्गवर्गमूलघनघनमूलानि ।
भिन्नवर्गवर्गमूलघनघनमूलेषु करणसूत्रं यथा
कृत्वाच्छेदांशकयोः कृतिकृतिमूले घनं च घनमूलम् ।
तच्छेदैशहूतौ वर्गादिफलं भवेद्दिने ॥ १३ ॥


  • M भिन्नवर्गभित्रवर्गमूलभिन्नघनतन्मूलेषु