पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

25 अथ द्वितीयः कलासवर्णव्यवहारः ।

त्रिलोकराजेन्द्रकिरीटकोटिप्रभाभिरालीदपदारवन्दम् ।
निर्मूलमुन्मूलितकर्मवृक्ष जिनेन्द्रचन्द्रं प्रणमामि भक्त्या ॥ १ ॥

इतः परं कलासवर्ण द्वितीयव्यवहारमुदाहरिष्यामः ॥

भिन्नप्रत्युत्पन्नः ।

तत्र भिन्नप्रत्युत्पन्न करणसूत्र यथा
गुणयेदंशानंशैर्हरान् हरैर्धठेत यदि तेषाम् ।
वत्रापवर्तनविधिविधाय तं भिन्नगुणकारे ॥ २ ॥

अत्रोद्देशकः ।

शुण्ठ्याः पलेन लभते चतुर्नवांशं पणस्य यः पुरुषः।
किमसौ बृह सरवे त्वं त्रिगुणेन पलाष्टभागेन ॥ ३ ॥
मरिचस्य पलस्यार्घः पणस्य समष्टमांशको यत्र।
तत्र भवेतक मूल्यं पलषट्पन्नांशकस्य बद ॥ ४ ॥
कथपणन लभते त्रपञ्चभाग पलस्य पप्परयाः ।
नवभिः परैर्दिक्षक्तैः किं गणकाचक्ष्व गुणयित्वा ॥ १ ॥
क्रीणाति पणेन वणिजीरकपलनवदशशकं यत्र ।
तत्र पणैः पञ्चधः कथय त्वं कि समग्रमते ॥ ६ ॥
द्यादयो द्वितयवृद्धयोंऽशका
स्यादयो इयचया हराः पुनः ।
ते द्वये दशपदाः कियत्फलं
ब्रूहि तत्र गुणने द्वयोर्दयोः ॥ ७ ॥

इति भिन्नगुणकारः।


This stanza is omitted in P.
x मौ.