पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

18 गणितसारसङ्गहः

गच्छानयनसूत्रम्

अष्टोत्तरगुणराशेर्डिगुणाद्युत्तरविशेषातिसहितात् ।
मूलं चययुन मर्धितमाङ्कनं चयहतं गच्छः i ६९॥

प्रकारान्तरेण गच्छनयनसूत्रम्
अष्टोत्तरगुणराशेर्डिगुणावुत्तरविशेषकृतिसाहितात् ।
मूलं क्षेपपदोनं दलितं चयभाजितं गच्छः ॥ ७० ॥

अत्रोद्देशकः ॥

आदिदं प्रचयोऽर्थौ द्वौ रूपेणा त्रयात्क्रमाइडौ ।
रवाजे रसाद्रिनेत्रं रवेन्दुझरा वित्तमत्र को गच्छ ॥ ७१ ॥
आदिः पञ्च चयोऽष्टं गुणराग्निधनमत्र को गच्छः ।
षट् प्रभवश्च चयोऽष्टौ वह्निचतुस्त्वं पदं किं स्यात् ॥ ७२ ॥

उत्तराद्यानयनसूत्रम्-
आदिधनोनं गणितं पदोनपदछतिदलेन सम्भजितम् ।
प्रचयस्तद्धनहीनं गणि पदभाजितं प्रभवः ॥ ७३ ॥

आधुत्तरानयनसूत्रम् =
प्रभवो गच्छाधनं विगतैकपदार्थगुणितचयहीनम् ।
पदहतधनमथुनं निरेकपददलहतं प्रचयः ॥ ७४ ॥

प्रकारान्तरणात्तराद्यानयनसूत्रद्वयम्
द्विहतं सङ्कलितधनं गच्छहृतं द्विगुणितादिना रहितम् ।
विगतैकपदविभक्तं प्रचयस्स्यादिति विजानीहि ॥ ७१ ॥
द्विगुणितसङ्कलितधनं गच्छहतं रूपरहितगच्छेन ।
ताडितचयेन रहितं द्वयेन सम्भाजितं प्रभवः ॥ ७६ ॥