पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणितसारसङ्ग्रहः 17

सङ्कलितम् ।

सप्तमे सङ्कलितपरिकर्मणि करणसूत्रं यथा --
रूपेणोपे गच्छो दलीकुतः प्रचयताडितो मिश्रः ।
प्रभवेण पदाभ्यस्तस्सङ्कलितं भवति सर्वेषाम् ॥ ६१ ॥

प्रकारान्तरेण धनानयनसूत्रम् --
'एकविहीनो गच्छः प्रचयगुणो द्विगुणितादिसंयुक्तः ।
गच्छाभ्यस्तो द्विहतः प्रभवेत्सर्वत्र सङ्कलितम् ॥ ६२ ॥

आधुत्तरसवधनानयनसूत्रम्--
पदहतमुखमादिधनं व्येकपदाम्नचयगुण गच्छः ।
उत्तरधनं तयोयगो धनमूनोत्तरं मुरवेऽन्त्यधने ॥ ६३ ॥

अन्यधनमध्यधनसर्वधनानयनसूत्रम्-
चयगुणितैकोनपदं सद्यन्त्यधनं तदादियोगार्धम् ।
मध्यधनं तत्पदवधमुद्दिष्टं सर्वसङ्कलितम् ॥ ६४ ॥

अत्रोद्देशकः ।

एकादिदशान्ताद्यास्तावत्प्रचथास्समर्चयन्ति धनम् ।
वणिजो दश दश गच्छास्तेषां सङ्कलितमाकलय ॥ ६५ ॥
द्विमुवत्रिचयैर्मणिभिः प्रनखी श्रावकोत्तमः कश्चित् ।
पञ्चवसतीरमीषां का सह्या बृहि गणितज्ञ ॥ ६६ ॥
आदित्रयश्चयोऽर्थ द्वादश गच्छत्रयाऽप रूपेण ।
आ सप्तकात्प्रवुडस्सर्वेषां गणक भण गणेतम् ॥ ६ ७ ॥
द्विकृतिभुवं चयोऽर्थो नगरहवें समाचितं गणितम् ।
गणिताब्धिसमुत्तरणे बाहुबलिन् त्वं समाचक्ष्व ॥ ६८ ॥

A तदूना सैक(व ?)पदासा युतिः प्रभवः ।
This stanza is omitted in M. • M बली.