क्षेत्रगणितव्यवहारः 119
यवाकारक्षेत्रस्य च धनुराकारक्षेत्रस्य च सूक्ष्मफलानयनसूत्रम्--
इषुपादगुणश्च गुणो दशपदगुणितश्च भवति गणितफलम् ।
यवसस्थानक्षत्र धनुराकारे च विज्ञेयम् ।। ७०(१/२) ॥
अत्रोद्देशकः ।
द्वादशदण्डायामो मुखद्वयं सूचिरापि च विस्तारः ।
चत्वारो मध्येऽपि च यवसंस्थानस्य किं तु फलम् ॥ ७१(१/२) ॥
धनुराकारसंस्थाने ज्या चतुर्विंशतिः पुनः।
चत्वारोऽस्येषुरुद्दिष्टस्सूक्ष्मं किं तु फलं भवेत् ॥ ७२ ॥
धनुराकारक्षत्रस्य धनुःकाष्ठबाणप्रमाणानयनसूत्रम्--
शरवर्गः षङ्गुणितो ज्यावर्गसमन्वितस्तु यस्तस्य ।
मूल धनुर्गुणेषुप्रसाधने तत्र विपरीतम् ॥ ७३(१/२) ॥
विपरीतक्रियायां सूत्रम्--
गुणचापकृतिविशेषात्तर्कहतात्पदमिषुः समुद्दिष्टः ।
शरवर्गात् षड़णितादूनं धनुषः कृतेः पदं जीवा ॥ ७४(१/२) ॥
अत्रोदशकः।
धनुराकारक्षेत्रे ज्या द्वादश षट् शरः काष्ठम् ।
न ज्ञायते सरवं त्वं का जीवा क१२रस्तरस्य ॥ ७५(१/२) ॥
मृदङ्गनिभक्षेत्रस्य च पणवाकारक्षेत्रस्य च वत्राकारक्षेत्रस्य च
सूक्ष्मफलानयनसूत्रम्--
मुखगुणितायामफलं धनुःफलसंयुतं मृदङ्गनिभे ।
तत्पणववननिभयोर्धनुःफलोनं तयोरुभयोः ॥ ७६(१/२) ॥
1 The reading in both B and M is as given above; but षड्गुणितादूनाया धनुष्कृतेः
पदं जीवा gives the required meaning.