पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

120 गणितसारसङ्ग्रहः

अत्रोद्देशकः ।

चतुर्विंशतिरायामो विस्तारोऽष्टं मुवद्वये ।
क्षेत्रे मृदङ्गसंस्थाने मध्ये षोडश किं फलम् ॥ ७७(१/२) ॥

चतुर्विंशतिरायामस्तथाष्टौ मुरवयोर्दयोः ।
चत्वारो मध्यविष्कम्भः किं फलं पणवाकृती ॥ ७८(१/२) ॥

चतुर्विंशतिरायामस्तथाष्टौ मुरवयोर्दयोः ।
मध्ये सूचस्तथाचक्ष्व वज्त्राकारस्य कि फलम् ॥ ७९(१/२) ॥

नेमिक्षेत्रस्य च बालेन्द्वकारक्षेत्रस्य च इभदन्ताकारक्षेत्रस्य च सूक्ष्म
फलानयनसूत्रम्--

पृष्ठोदरसंक्षेपः षड्भक्तो व्यासरूपसङ्गणितः ।
दशमूलगुणो नेमेबलेन्दिभदन्तयोश्च तस्यार्धम् ॥ ८०(१/२) ॥

अत्रोद्देशकः ।

पृष्ठं चतुर्दशोदरमष्टौ नेम्याकृतौ भूमौ ।
मध्ये चत्वारि च तद्वालेन्दोः किमिभदन्तस्य ॥ ८१(१/२) ॥

चतुर्मण्डलमध्यस्थितक्षेत्रस्य सूक्ष्मफलानयनसूत्रम् –-

विष्कम्भवर्गरावृत्तस्यैकस्य सूक्ष्मफलम् ।
त्यक्त्वा समवृत्तानामन्तरजफलं चतुर्णा स्यात् ॥ ८२(१/२) ॥

अत्रोद्देशकः ।

गोलकचतुष्टयस्य हि परस्परस्पर्शकस्य मध्यस्य ।
सूक्ष्मं गणितं किं स्याच्चतुष्कविष्कम्भयुक्तस्य ॥ ८३(१/२) ॥