पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

118 गणितसारसङ्ग्रहः

आयतवृत्तक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्--

व्यासकृतिष्षड्गुणिता द्विसङ्गुणायामकृतियुता(पदं) परिधिः ।
व्यासचतुर्भागगुणश्चायतवृत्तस्य सूक्ष्मफलम् ॥ ६३ ॥

अत्रोद्देशकः।

आयतवृत्तायामः षट्त्रिंशद्वादशास्य विष्कम्भः ।
कः परिधिः किं गणितं सूक्ष्मं विगणय्य मे कथय ॥ ६४ ॥

शङ्खाकारक्षेत्रस्य सूक्ष्मफलानयनसूत्रम्--

वदनाखूनो व्यासो दशपदगुणितो भवेत्परिक्षेपः ।
मुखदलरहितव्यासार्थवर्गमुवचरणकृतियोगः ॥ ६५ ॥

दशपदगुणितः क्षेत्रे कम्युनिभे सूक्ष्मफलमेतत् ।। ६५(१/२) ॥

अत्रोद्देशकः ।

व्यासोऽष्टादश दण्डा मुरवविस्तारोऽयमपि च चत्वारः ।
कः परिधिः किं गणितं सूक्ष्मं तत्कम्बुकावृत्ते ॥ ६६(१/२) ॥

बहिश्चक्रवालवृत्तक्षेत्रस्य चान्तश्चक्रवालवृत्तक्षेत्रस्य च सूक्ष्मफलानय
नसूत्रम् निर्गमसहितो व्यासो दशपदनिर्गमगुणो बहिर्गणितम् ।
रहितोऽधिगमेनासावभ्यन्तरचक्रवालवृत्तस्य ॥ ६७ ॥

अत्रोद्देशकः ।

व्यासोऽष्टादश दण्डाः पुनर्बहिर्निर्गतास्त्रयो दण्डाः ।
सूक्ष्मगणितं वद त्वं बहिरन्तश्चक्रवालवृत्तस्य ॥ ६१ ॥

व्यासोऽष्टादश दण्डा अन्तःपुनरधिगताश्च चत्वारः ।
सूक्ष्मगणितं वद त्वं चाभ्यन्तरचक्रवालवृत्तस्य ॥ ६९ ॥