पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

106 गणितसारसङ्ग्रहः

का भवति कथय शीघ्र यदि तेऽस्ति परिश्रमो गणिते ॥ ३१३ ॥

अधिकहीनगुणसङ्कलितनयनसूत्रम्--

गुणचितिरन्यादिहृता विपदाधिकहीनसङ्कणा भक्ता।
व्येकगुणेनान्या फलरहिता हीनेऽधिके तु फलयुक्ता ॥ ३१४ ॥

अत्रोद्देशकः ।

पञ्च गुणोत्तरमादिदं त्रीण्यधिकं पदं हि चत्वारः ।
आधिकगुणोत्तरचितिका कथय विचिन्त्यािशु गणिततत्त्वज्ञ ॥ ३१५ ॥

आदिस्त्रीणि गुणोत्तरमष्टौ हीनं इयं च दश गच्छः ।
हीनगुणोत्तरचितिका का भवति विचिन्त्य कथय गणकाशु ॥ ३१६ ॥

आधुत्तरगच्छधनमिश्राद्युत्तरगच्छानयनसूत्रम्—-

मिश्रादुद्धत्य पदं रूपोनेच्छाधनेन सैकेन ।
लब्धं प्रचयः शेषः सरूपपदभाजितः प्रभवः ॥ ३१७ ॥

अत्रोद्देशकः ।

आद्युत्तरपदमित्रं पञ्चशडनमिहैव सन्दृष्टम् ।
गणितज्ञाचक्ष्व त्वं प्रभवोत्तरपदधनन्याशु ॥ । ३१८ ॥

सङ्कलितगतिषुवगतिभ्यां समानकालानयनसूत्रम् –-

ध्वगतिरादिविहीनश्चयदलभक्तस्सरूपकः कालः ।
द्विगुणो मार्गस्तद्रतियोगहृतो योगकालस्स्यात् ॥ ३१९ ॥

अत्रोद्देशकः ।

कश्चिन्नरः प्रयाति त्रिभिरादा उत्तरैस्तथाष्टाभिः।
नियतगतिरेकविंशतिरनयोः कः प्राप्तकालः स्यात् ॥ ३२० ॥