पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकव्यवहारः 107

अपरार्धोदाहरणम् ।

षड् योजनानि कश्चित्पुरुषस्त्वपरः प्रयाति च त्रीणि ।
उभयोरभिमुखगत्योरष्टोत्तरशतकयोजनं गम्यम् ।
प्रत्येकं च तयोः स्यात्कालः किं गणक कथय मे शीघ्रम् ॥ ३२१(१/२) ॥

सङ्कलितसमागमकालयोजनानयनसूत्रम् –

उभयोराद्योश्शेषश्चयशेषहृतो द्विसङ्गणः सैकः ।
युगपत्प्रयाणयांस्स्यान्मार्गे तु समागमः कालः ॥ ३२२(१/२) ॥

अत्रोद्देशकः ।

चत्वार्याद्यष्टोत्तरमेको गच्छत्यथो द्वितीयो ना ।
द्वौ प्रचयश्च दशादिः समागमे कस्तयः कालः ॥ ३२३(१/२) ॥

वृद्धुत्तरहीनोत्तरयोस्समागमकालानयनसूत्रम् –

शेषश्चद्योरुभयोश्चययुतदलभक्तरूपयुतः ।
युगपत्प्रयाणकृतयोमोगें संयोगकालः स्यात् ॥ ३२४(१/२) ॥

अत्रोद्देशकः ।

पाद्यष्टोत्तरतः प्रथमा नाथ द्वैतायनरः ।
आदिः पञ्चघ्ननव प्रचयो हीनोऽष्ट योगकालः कः ॥ ३२५(१/२) ॥

शम्रिगतिमन्दगत्योस्समागमकालानयनसूत्रम्—-

मन्दगतिशीघ्रगत्योरेकाशागमनमत्र गम्यं यत् ।
तदात्यन्तरभक्तं लब्धदिनैसैः प्रयाति शीघ्रोऽल्पम् ॥ ३२६(१/२) ॥

अत्रोद्देशकः ।

नवयोजनानि कश्चित्प्रयाति योजनशतं गतं तेन ।
प्रतिदूतो व्रजति पुनस्त्रयोदशमोति कैर्दिवसैः ॥ ३२७(१/२) ॥

10-A