पृष्ठम्:गणितसारसङ्ग्रहः॒रङ्गाचार्येणानूदितः॒१९१२.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

105 मिश्रकव्यवहारः

अत्रोद्देशकः ।

आदिष्षट् पञ्च चयः पदमप्यष्टादशथ सन्दृष्टम् ।
एकावेकोत्तरचितिसङ्कलितं किं पदाष्टदशकस्य ॥ ३०६(१/२) ॥

चतुस्सङ्कलितानयनसूत्रम--

सैकपदार्थपदाहतिरश्वैर्निहता पदोनिता व्याप्ता ।
सैकपदन चितिचितिचितिकृतिघनसंयुतिर्भवति ॥ ३०७(१/२) ॥

अत्रोद्देशकः ।

सतीष्टनवदशानां षोडशपञ्चशदेकषष्टीनम् ।
ब्रूहि चतुःसङ्कलितं सूत्राणि पृथक् पृथक् कृत्वा ॥ ३०८(१/२) ।।

सर्वतसङ्कालतानयनसूत्रम् --

गच्छस्त्रिरूपसहितो गच्छचतुर्भागताडितस्सैकः ।
सपदपदकृतिविनिघ्नो भवति हि सङ्घातसङ्कलितम् ॥ १०९(१/२) ॥

अत्रोद्देशकः ।

सप्तकृतेः षट्षष्टयास्त्रयोदशानां चतुर्दशानां च।
पञ्चगवंशतीनां किं स्यात् सङ्घातसङ्कलितम् ॥ ३१०(१/२) ॥

भिन्नगुणसङ्कलितानयनसूत्रम् --

समदलविषमखरूपं गुणगुणितं वर्गताडितं द्विष्ठम् ।
अंशातं व्येकं फलमाद्यन्घनं गुणोनरूपहृतम् ॥ ३११(१/२) ॥

अत्रोद्देशकः ।

दीनाराधं पञ्चसु नगरेषु चयस्त्रिभागोऽभूत् ।
आदित्रयंशः पादो गुणोत्तरं सप्त भिन्नगुणचितिका ।

10