८ प्रक, गूढपुरुषप्रणिधः.
ये चाप्यसम्वन्धिनोऽवश्यभर्तव्यास्ते लक्षणमङ्गविद्यां जम्भ
कविद्यां मायागतमाश्रमधर्म [१]निमित्तमन्तरचक्रमित्यधीयानाः स-
त्रिणसंसर्गविद्या वा ।।
ये जनपदे शूरास्त्यक्तास्मानो हस्तिनं व्यालं वा द्रव्यहेतोः
प्रतियोधयेयुस्ते तीक्ष्णाः ।
ये बन्धुषु निस्नेहाः क्रूराश्र्चालसाश्च ते रसदाः ।।
परित्राजिका वृत्तिकामा दरिद्रा विधवा प्रगल्भा ब्राह्मण्य
न्तःपुरे कृतसत्कारा महामात्रकुलान्याधिगच्छेत् ॥
एतया मुण्डा वृषल्यो व्याख्याताः ।
इति सञ्चाराः ।।
तान्राजा स्वविषये मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वाशिकप्रशास्तृसमाहर्तृसन्निधातृप्रदेष्टनायकपौरव्यावहारिककार्मान्तिकमन्त्रिपरिषदध्यक्षदण्डदुर्गान्तपालाटविकेषु श्रद्धेयदेशवेष
शिल्पभाषाभिजनोपदेशान् भक्तितस्सामर्थ्ययोगाच्चापसर्पयेत् ॥
तेषां बाह्यं चारं छत्रभृङ्गारव्यजनपादुकासनयानवाहनो
पग्राहिणः तीक्ष्णा विद्युः ।।
तं सत्रिणः संस्थास्वयेयुः ।।
- ↑ धुर्म.